४०२ अमरकोषः । विपर्यासे विस्तरे च प्रपञ्चः प्रपश्यते । ‘पचि व्यक्तीकरणे' (भ्वा० आ० से ० ) । पचा- द्यच् (३।२।१३४)। ‘प्रपञ्चः संचयेऽपि स्याद्विस्तरे च प्रता- | रणे' (इति मेदिनी) ॥ पावके शुचिः ॥ २८ ॥ मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु । शोचल्यनेन । 'शुच शोके' (भ्वा०प० से ० ) । 'इगुपधात् कित्’ (उ० ४।१२०) इतीन् । 'शुचिष्माग्निशृङ्गा रेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु' ( इति मेदिनी) । उपधामुत्कोचमतिक्रान्तेऽमाये ॥ अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् २९ रोचते । 'रुच दीप्तावभिप्रीतौ च ' ( भ्वा० आ० से ० ) । ‘इगुपधातिकत्’ (उ० ४११२०) इतीन् । 'रुचिः स्त्री दीप्ति- शोभायाम भिष्वङ्गामिलाषयो: ' ( इति मेदिनी ) ॥ इति चान्ताः ॥ के कितार्थ्यावहिभुजौ अहिं भुङ्क्ते । ‘भुज पालनाभ्यवहारयो: ' ( रु० उ० अ०) । विप् (३।२।७८) ॥ दन्तविप्राण्डजा द्विजाः । द्विर्जायते । 'अन्येष्वपि-' (३।२।१०१) इति डः । 'द्विजः स्याद्ब्राह्मणक्षत्रवैश्यदन्ताण्डजेषु ना । द्विजा भार्ग्या हरेणौ च ' ( इति मेदिनी) ॥ अजा विष्णुहरच्छागाः गोष्ठाध्वनिवहा व्रजाः ॥ ३० ॥ व्रजति । अस्मिन् वा । 'व्रज गतौ ( भ्वा०प० से ० ) । पचाद्यच् । ‘गोचरसंचर-’ (३|३|११९) इति वा साधुः ॥ धर्मराजौ जिनयमौ [ तृतीयं काण्डम् बले जातम् । ‘सप्तम्यां जनेर्ड:' (३२९७) | 'बलजं गोपुरे क्षेत्रे सस्यसंगरयोरपि । बलजा वरयोषायां यूथ्याम्' ( इति मेदिनी) ॥ समक्ष्मांशे रणेऽप्याजिः धर्मेण राजति । अच् (३।१।१३४) | धर्मस्य राजा | धर्मश्चासौ राजाच इति वा । 'राजाहः सखिभ्यष्टच' (५४७ ९१ ) । 'धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान्' (इति मे- दिनी) ॥ कुञ्जो दन्तेऽपि न स्त्रियाम् । कौ जायते । ‘सप्तम्यां जनेर्डः’ (३१११९७) | पृषोदरादिः (६।३।१०९)। यत्तु—कुञ्जन्त्यत्र । 'कुजि अव्यक्ते शब्दे' । ‘इलञ्च’ (३।३।१२१) । इति घन्— इत्याह । तन्न । 'कुजि’ धातोरप्रसिद्धत्वात् । ‘गुजि’ घातोर्दर्शनात् । 'कुजोऽस्त्रियां निकुञ्जेपि हनौ दन्तेऽपि दन्तिनाम् ( इति मेदिनी ) ॥ बलजे क्षेत्रपूर्द्वारे बलजा वल्गुदर्शना ॥ ३१ ॥ अजन्त्यस्याम् । 'अज गतौ' (भ्वा०प० से ० ) | 'अज्य- तिभ्यां च ' ( उ० ४।१३१ ) इतीण् । 'अथाजिः स्त्री समभूमौ च सङ्ग्रामे (इति मेदिनी ) ॥ प्रजा स्यात्संततौ जने । प्रजायते । 'उपसर्गे च संज्ञायाम् (३१२१९९) इति जनेर्डः ॥ अब्जौ शङ्खशशाङ्कौ च न जायते । पूर्ववत् ( ३|२|१०२) डः | अजति वा । 'ब- हुलं तणि' (वा० २४१५४) इति जी न । पचायच् । ( ३ ॥१॥ नामनि गायत्र्यां चेतनारवियोषितोः । अर्थस्य सूचनायां च संज्ञानम् । 'आतचोप-' (३|३|१०६) इलङ् | 'संज्ञा १३४) । ‘अजो हरौ हरे कामे विधौ छागे रघोः सुते’ | हस्ताद्यैरपि योषिति' (इति मेदिनी) ॥ इति विश्वः ॥ इति जान्ताः ॥ 'अन्जोऽत्री शङ्खे, ना निचुले धन्वन्तरौ च हिमकिरणे । अप्सु जायते । 'सप्तम्याम् -' (३|२|९७) इति डः । क्लीबं पद्मे' (इति मेदिनी ) ॥ स्वके नित्ये निजं त्रिषु ॥ ३२ ॥ नि जायते । ‘उपसर्गे च -' (३।२।९९) इति डः ॥ इति जान्ताः । पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः । क्षेत्रं जानाति । 'ज्ञा अवबोधने (ऋया० प० अ०) । 'आतोऽनुप - ' ( ३|२|३) इति कः ॥ संज्ञा स्याश्चेतना नामहस्ताद्यैश्वार्थसूचना ॥ ३३ ॥ काकेभगण्डौ करटौ 'क' इति रटति । 'रट शब्दे' (भ्वा० प० से ० ) । पचा- यच् (३।१।१३४) | 'करटो गजगण्डे स्यात्कुसुम्भे निन्द्य- जीवने । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे । करटो वायभेदे’ (इति मेदिनी) ॥ । गजगण्डकटी कटौ । कटति । ‘कटे वर्षावरणयोः' (भ्वा०प० से ० ) | पचाद्यच् (३।१।१३४ ) | 'कटः श्रोणौ क्रियाकारे कलिजेऽतिशये शवे । समये गजगण्डेऽपि पिप्पल्यां च कटी मता' इति विश्वः । 'कटः श्रोणौ द्वयोः पुंसि कलिजेऽतिशये शवे' ( इति मेदिनी) ॥ शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३४ ॥ शिपिषु रश्मिषु पशुषु वा विष्टः । 'शिपिविष्टः शिवः शौरिर्दुश्चर्मा खलतिस्तथा ॥
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४११
एतत् पृष्ठम् अपरिष्कृतम् अस्ति