[ तृतीयं काण्डम् काशते । 'काट दीप्तौ' ( भ्वा० आ० से ० ) । 'हनिकुषि - ' नाडी कालेऽपि षट्क्षणे । नालयति । 'जल गन्धे' (भ्वा०प० से ० ) | पचायच् (३। ( उ० २१ २ ) इति क्थन् । 'काष्ठा दारुहरिद्रायां कालमान- | ११३४) डलयोरेकत्वम् । गौरादिः (४|११४१) । 'नाडी प्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम् ( इति मेदिनी) ॥ नाले व्रणान्तरे | शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च । तथा षट्क्षणकालेऽपि' (इति मेदिनी) ॥ ज्येष्ठोऽतिशस्तेऽपि ४०४ अमरकोषः । काष्टोत्कर्षे स्थितौ दिशि । अतिशयेन प्रशस्तः । ‘अतिशायने तमबिष्ठनौ' (५॥३॥ ५५ ) | 'ज्य च्य' (५|३|६१) इति प्रशस्यस्य ज्यादेशः । 'ज्येष्ठः श्रेष्ठे च वृद्धे च त्रिषु, मासान्तरे पुमान् । ज्येष्ठा तु गृहगोधाख्यजन्तु नक्षत्र मेदयो: ' ( इति मेदिनी ) ॥ कनिष्ठोऽतियुवाल्पयोः ॥ ४१ ॥ अतिशयेन युवा, अल्पो वा । इष्टन् (५१३१५५ ) | 'युवा- रुपयोः कन्नन्यतरस्याम्’ (५१३१६४) | 'कनिष्ठोऽतियुवाल ल्पानुजे स्त्री दुर्बलाङ्गुलौ' (इति मेदिनी) ॥ इति ठान्ताः ॥ इण्डोऽस्त्री लगुडेऽपि स्यात् दण्ड्यति । अनेन वा । ‘दण्ड निपातने' (चु० उ० से ० )। पचायच् (३।१।१३४) ‘पुंसि -' (३|४|११८) इति घो वा । दमेः (दि० प० से०) डः (उ० ११ ११४) वा । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः । व्यूह भेदे प्रकाण्डेऽश्वे कोणम- स्थानयोरपि । अभिमाने ग्रहे दण्डवण्डांशोः पारिपार्श्विके' इति विश्वः ॥ गुडो गोलेक्षुपाकयोः । गुडति । 'गुड वेष्टने' ( तु० व० से ० ) । 'इगुपध-' (३। १।१३५) इति कः । ‘गुडः स्याद्गोलके हस्तिसंनाहेविका- रयोः । गुडा नुड्यां च कथिता गुडिकायां च योषिति' (इति मेदिनी) ॥ सर्पमांसात्पशू व्याडौ ब्याङति । ‘अड उद्यमे’ (भ्वा० पू० से ० ) | पचायच् रभसः ॥ (३।१।१३५) । 'व्याडो व्याघ्रे खले सर्पे' इति गोभूवाचस्त्विडा इला ॥ ४२ ॥ इलति । इल 'उत्पेक्षे' (तु०प० से ० ) 'इगुपध-' (३॥१॥ १३५ ) इति कः । ( 'इला कलत्रे सौम्यस्य धरित्र्यां गवि वाचि च' इति मेदिनी) ॥ (२) ॥ ॥ डलयोरेकत्व स्मरणा- दिंडा । 'इडा तु बुधयोषिति | सौरमेय्यां च वचने वसुम- त्यामपि स्त्रियाम्' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ क्ष्वेडा वंशशलाकापि क्ष्वेलति । 'क्ष्वेल चलने' (भ्वा०प० से ० ) | पचायच् (३।१।१३५) । डलयोरेकत्वम् । 'क्ष्वेडो ध्वनौ कर्णामये विषे । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति । लोहि- तार्कपर्णफले घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्य- लिङ्गः प्रकीर्तितः' (इति मेदिनी) ॥ काण्डोत्री दण्डबाणार्षवर्गावसरवारिषु ॥ ४३ ॥ कलति । 'कनी दीप्तौ' ( भ्वा०प० से ० ) | जमन्ताइः ( उ० ११११४) । 'कादिभ्यः कित्' ( उ० १२११५)। 'अनु- नासिकस्य -' (६|४|११५) इति दीर्घः । 'काण्डं चावसरे बाणे नाले स्कन्धे च शाखिनाम् । स्तम्बे रहसि वर्गे च' इति धरणिः । ('काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः । कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि न स्त्रियाम्' (इति मेदिनी) ॥ स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने | भण्यते । 'भण शब्दे' (भ्वा० प० से ० ) । पूर्ववत् पृषो. दरादिः (६।३।१०९) । 'भाण्डं भूषणमात्रे स्यात्' इति धरणिः । 'भाण्डं पात्रे वणिग्मूलधने भूषाश्वभूषयोः' (इति मेदिनी) ॥ इति डान्ताः ॥ भृशप्रतिशयोर्वाढम् उद्यते स्म । 'वह प्रापणे' (भ्वा० उ० अ० ) । 'कः’ १।१०२) । 'क्षुब्धखान्त -' (७|२|१८) इति साधुः ॥ प्रगाढं भृशकृच्छ्रयोः ॥ ४४ ॥ प्रगाह्यते स्म । 'गाहू विलोडने' (भ्वा० आ० से० ) । 'प्रगाढं स्यादृढे कृच्छ्रे’ इति धरणिः ॥ क्तः (३।१।१०२) । ‘यस्य विभाषा' (७/२०१५) इति नेट् । शक्तस्थूलौ त्रिषु दृढौ दर्हति, दृंहति वा स्म । 'दृह दृहि वृद्धौ' (भ्वा०प० से ० ) | २०२०) इति साधुः । 'दृढः स्थूले नितान्ते च प्रगाढे बल- 'गत्यर्था-' (३।४।७२) इति क्त: । 'दृढः स्थूलबलयोः' (७॥ वत्यपि ' (इति मेदिनी) ॥ व्यूढौ विन्यस्तसंहतौ । विशेषेणोह्यते स्म । 'वह प्रापणे' (भ्वा० उ० अ०) । तः (३।२।१०२) । 'व्यूढः संहतविन्यस्ते पृथुलेऽप्यभिधे- यवत्' ( इति मेदिनी ) ॥ इति ढान्ताः ॥ भ्रूणोऽर्भके स्त्रैणगर्भे भ्रूण्यते । 'भ्रूण आशायाम्' (चु० आ० से ० ) । घञ् (३१३११८ ) | 'भ्रूण: स्त्रीगर्भडिम्भयो: ' ( इति मेदिनी) । स्त्रिया अयम् । 'स्त्रीपुंसाभ्याम् -' (४|११८७) इति नन् । स्त्रैणश्चासौ गर्भश्च । शाल्या दिगर्भव्यावृत्त्यर्थं विशेषणम् ॥ १ -- अर्वा कुत्सितः - इति मुकुटः ॥
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति