पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । ४१९ (३।३।१२१) इति वा । ' उपसर्गस्य - ' ( ६ | ३ | १२२) इति 'अस्त्रियाम्' इति कशिपुतल्पाभ्यामपि संबध्यते । अट्टो- दीर्घः । परिच्छदः परिवारः ॥ Sढालिका ॥ गोधुर गोष्ठपतिगो॑पौ र्गा पाति । 'पा रक्षणे' (अ० प० अ० ) । 'आतोऽनुप-' ( ३१२१३) इति कः । 'गोपो ग्रामौघगोष्ठाधिकृतयोर्बल्लवे' इति विश्वः ॥ हरो विष्णुर्वृषाकपिः । वृषं धर्मं न कम्पयति । ‘कपि किंचिञ्चलने' (भ्वा० आ० से०) । ‘'अंहि कम्प्योर्नलोपश्च' (उ० ४।१४४) इती: । वृषाद्ध- मौदाकम्पयति दुष्टान् इति वा । यद्वा वर्षति कामान् । 'वृषु सेचने ' ( भ्वा० प० से ० ) | 'इगुपध' (३|१|१३५ ) इति कः । आकम्पयति पापानि । पूर्ववदिः ( उ०४१४४)। वृष- श्वासावाकपिश्च । यद्वा वृषा इन्द्रोऽनेन । कम्पते आकम्पते वा अस्मात् । यद्वा वृषो धर्मो वृषा इन्द्रो वा कपिरिव वशे यस्य । यद्वा वृषरक्षकः कपिर्वराहः । शाकपार्थिवादिः (वा० २ | १।७८)। ‘अन्येषामपि–’ (६|३|१३९) इति दीर्घः । यद्वा वृष्ण इन्द्रस्याकं वृषाकं पियति । 'पि गतौ ' ( तु०प० अ०) । अन्तर्भावितण्यर्थो वा । इन्द्रदुःखं प्राप्नोति प्रापयति वा दैत्यान् । रक्षकत्वात् । विचि (३।२।७५) संज्ञापूर्वकत्वान्न गुणः | विपि (३|२|७६ ) तु आगमशास्त्रस्यानित्यत्वान्न तुक् | परशब्दस्येष्ट- चाचित्वादियङं बाधित्वा पूर्वसवर्णदीर्ध: ( ६ |१|१०२) पूर्वरूपे (६।१।१०७) स्तः । 'वृषाकपिः पुमाकृष्णे शंकरे जातवे- दसि' (इति मेदिनी) ॥ बाष्पमूष्मा वायति । 'ओवै शोषणे' (भ्वा०प० से ० ) । वाति । 'वा गत्यादौ ' ( अ० प० अ०) । 'खप्पशिल्पशप' ( उ० ३१२८) इति साधुः ॥ कशिपु त्वन्नमाच्छादनं द्वयम् ॥ १३० ॥ कशति दुःखम् । कश्यते वा । 'कश गतिशासनयोः (अ० आ० अ०) मृगवादित्वात् ( उ० ११३७) साधुः । 'एकोत्या कशिपुर्भक्ताच्छादने च द्वयोः पृथक्' इति विश्वः ॥ तल्पं शय्याट्टदारेषु तल्यतेऽस्मिन् । 'तल प्रतिष्ठायाम् ' ( भ्वा०प० से ० ) । 'खष्पशिल्प –' ( उ० ३।२८ ) इति साधुः | वक्ष्यमाणम्, १ – आधुनिक पुस्तकेषु तु 'कुण्ठिकम्प्योः' इति पाठ उपल भ्यते ॥ २–बाष्पं मेदिन्यामन्तस्थादौ पठ्यते । अत एव गोवर्ध- नाचार्यैरपि 'बाष्पाकुलम्' (५२८) इत्यार्याऽन्त स्थादिव्रज्यायां लिखिता । हैमे तु स्पर्शादि पठ्यते ॥ ३ - इदं त्वसंगतम् ‘कशिपुर्भक्ताच्छादनयोरेकोत्त्या पृतः पुंसि' इति मेदिनीतः कशिपोः पुंस्त्वस्य, 'तल्पमट्टे कलत्रे च शयनीये च न द्वयोः' इति मेदिनी तस्तल्पस्य क्लीबतायाः प्रतीतेः ॥ स्तम्बेsपि विटपोऽस्त्रियाम् । वेटति । विठ्यते वा । 'विट आक्रोशे शब्दे' (भ्वा०प० से० ) । 'विटपपिष्टपविशिपोलपाः' (उ० ३११४५ ) । 'विटपः पहवे विजे विस्तारे स्तम्बशाखयोः' इति विश्वः ॥ प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥ भेद्यलिङ्गा अमी प्राप्तो रूपम् । ‘प्राप्तापन्ने च - ' (२१२१४) इति समासः । प्राप्तं रूपं येन । 'प्राप्तरूपो ज्ञरम्ययोः' (इति मेदिनी) ॥ स्वमेव रूपं यस्य ॥ अभिलक्ष्यं रूपमस्य । 'अभिरूपो बुधे रम्ये' ( इति मेदिनी) ॥ कूर्मी वीणाभेदश्व कच्छपी । कच्छे कच्छं वा पिबति । कच्छेन पाति वा । 'सुपि- ' (३१२१४) इति कः । ‘गापोष्टक्' (३१२१८) तु न | ‘पिबतेः सुरासीध्वोः' (वार्तिक ) इति वचनात् । 'गतिकारकोपपदा-' इति सुबुत्पत्तेः प्राक् समासः । 'जाते : ' (४|११६३) इति ङीष् । 'कच्छपी वल्लकी भेदे डुलौ क्षुद्रगदान्तरे' इति विश्वः ॥ इति पान्ताः ॥ रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्य लिङ्गकः ॥१३२॥ ‘रादिफः' (वा० ३।३।१०८ ) | रिफ्यते | रिफति वा । ‘रिफ हिंसायाम्' (तु० प० से ० ) | घञ् ( ३ | ३ | १९ ) । पचा- द्यच् (३।१।१३४) वा ॥ इति फान्तः ॥ अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने । अन्तरा मरणजन्मनोर्मध्ये भवं सत्त्वं यातनाशरीरम् । यदाहुः - 'अन्तराभवदेहो हि नेष्यते विन्ध्यवासिनां' । तन्न । लक्ष्य विरोधात् । तस्मादन्तरिक्षवासिनो गन्धर्वाख्या भूताः । यध्यासः 'अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्' - इति स्वामी | तच्चिन्त्यम् । 'गन्धर्वः पशुमेदे स्यात्पुंस्कोकि- लतुरंगयोः । अन्तराभवसत्त्वे च गायने खेचरेऽपि च' (मेदि- नी) इत्यादौ द्वयोः पृथक् पाठात् । दृष्टान्तोऽपि विषमः । दिव्यगायनानां विश्वावस्खादीनामेव तत्र ग्रहणात् । गन्धर्वति । ‘अर्ब गतौ' (भ्वा०प० से ० ) । 'कर्मण्य' ( ३ | २ | १) शक- न्ध्वादिः (वा० ६।१।९४) ॥ कम्बुर्ना वलये शङ्खे कम्बति । 'कम्ब गतौ' ( ) मृगय्वादिः ( उ० १ (३७) 'कम्बुः शङ्खे स्त्रियां पुंसि शम्बूके वलये गजे' (इति मेदिनी) ॥ द्विजिह्रौ सर्पसूचकौ ॥ १३३ ॥ द्वे जिह्वे यस्य ॥