पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] मत्सरोऽन्य शुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ १७२ ॥ माद्यति परकृच्छ्रे । 'मदी हर्षे' (दि०प० से ० ) | ‘कृभू- मदिभ्यः कित्' ( उ० ३१७३) इति सरः । 'मत्सरा मक्षि- कायां स्यान्मात्सर्यक्रोधयोः पुमान् | असह्यपरसंपत्तौ कृपणे. चाभिधेयवत्' (इति मेदिनी) । तद्वानन्यशुभद्वेषवान् ॥ देवाहते वरः श्रेष्ठे त्रिषु क्लीवं मनाक्प्रिये । ब्रियते । वरणं वा। ‘वृज् वरणे' (खा० उ० से ० ) । 'ग्रहवृदृ-' (३|३|५८) इत्यप् । यद्वा वृणोति, वरति वा । पचाद्यच् (३।१।१३४) । 'वरो जामातरि वृतौ देवतादेरभी- प्सिते । षिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् । वरी प्रोका शतावर्या वरा च स्यात्फलत्रिके । मनागिष्टे वरं क्लीवं केचिदाहुस्तदव्ययम्' (इति मेदिनी ॥ व्याख्यासुधाख्यव्याख्यासमेतः । वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घंटे च ना ॥ १७३ ॥ कृणाति । ‘कु हिंसायाम्' ( क्या०प० से० ) किरति । कीर्यते वा । 'कृ विक्षेपे' (तु॰ प० से ० ) वा । ‘कृशुपकटि-' ( उ० ४।३०) इतीरन् । करिणमीरयति । 'ईर गतौ' (अ० आ० से०) । 'कर्मण्यण्’ (३|२|१ ) | 'वंशारे करीरोऽस्त्री वृक्षभिद्धटयोः पुमान् । करीरा चीरिकायां च दन्तमूले च दन्तिनाम् ' ( इति मेदिनी ) ॥ ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् । प्रतिसरति | पचाद्यच् ( ३।१।१३४) । प्रतिनियते । अनेन बा । ‘पुंसि—–’ (३।३।११८) इति घः । 'भषेप्रतिसरो म- त्रभेदे माल्ये च कङ्कणे | व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डले । आरक्षे करसूत्रे च नियोज्ये त्वन्यलिङ्गकः' ( इति मेदिनी) ॥ यमानिलेन्द्र न्द्रार्कविष्णुसिंहांशुवाजिषु ॥ १७४ ॥ शुकाहिकपिसेकेषु हरिर्ना कपिले त्रिषु । हरति । ‘हृळ्’ (भ्वा० उ० अ० ) | ‘अच इ : ' ( उ० ४ | १३९ ) । 'हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु । सिंहाश्वक- पिभेकाहिशुकलोकान्तरेषु च । हरिर्वाच्यवदाख्यातो हरि- तकपिलवर्णयोः' इति विश्वः ॥ शर्करा कर्परांशेऽपि शृणाति । शीर्यते वा । 'शू हिंसायाम्' (त्र्या० प ० से ० ) । ‘श्रः करन्' (उ० ४ | ३) । 'शर्करा खण्डविकृतावुपलाकर्प- रांशयोः । शर्करान्वितदेशेऽपि रुग्भेदे शकलेऽपि च' ( इति मेदिनी) ॥ यात्रा स्याद्यापने गतौ ॥ १७५ ॥ यानम् । अनेन वा । ' या प्रापणे' (अ०प०अ०) । ‘हुयामा-’ (उ० ४।१६८) इति त्रन् । 'यात्रा तु यापनो - पाये गतौ देवार्चनोत्सवे' इति विश्वः ॥ ४२७ इरा भूवाक्सुरासु स्यात् एति । ईयते वा । ‘इण् गतौ' (अ० प० अ०) । 'ऋजे- न्द्राग्र - ' ( उ० २११८) इति साधुः ॥ तन्द्रा निद्राप्रमीलयोः । तत् राति । 'आतोऽनुप—' (३ | २ | ३ |) इति कः । स्त्रियां टाप् (४।१।४)। केचिद् गौरादित्वात् (४|१|४१) ङीषमाहुः तद् द्राति वा । 'द्रा कुत्सायां गतौ ' ( अ० प० अ०) । - निद्रातन्द्रा - ' ( ३ | २|१५८) इति तदो नान्तत्वं निपात्यते । प्रमीला अत्यन्तश्रमादिना मोहप्राया || धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ॥१७६॥ । धीयते । ‘धेट् पाने' (भ्वा०प० अ० ) । 'धः कर्मणि ष्ट्रन्' (३।२।१८१)। षित्त्वात् (४|११४१) ङीष् । 'धात्री जनन्यामलकीवसुमत्युपमातृषु' (इति मेदिनी) ॥ क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका | त्रिषु क्रूरेऽधनेऽल्पेऽपि क्षुद्रः शृणत्ति । क्षुद्यते वा । 'क्षुदिर संचूर्णने' ( रु० उ० अ० ) | 'स्फायितश्चि – ' ( उ० २।१३) इति रक् । 'क्षुद्रः स्यादधम- क्रूरकृपणाल्पेषु वाच्यवत् । क्षुद्रा व्यङ्गानटीकण्टकारिकासरघासु च । चाङ्गेरीवेश्ययोर्हिस्रामक्षिकामात्रयोरपि' इति विश्वः ॥ व्यज्ञानहीना | सरघा मधुमक्षिका ॥ मात्रा परिच्छदे ॥ १७७ ॥ अल्पे च परिमाणे स्यान्मात्रं कात्रुर्येऽवधारणे । मीयते । अनया वा । माति मिमीते वा । ‘मा माने' (अ० प० अ०) । 'माङ् माने' (जु० आ० अ० ) वा । 'हुयामा - ' (उ० ४।१६८) इति त्रन् । 'मात्रा कर्णविभूषायां वित्त माने परिच्छदे | अक्षरावयवे स्वल्पे क्लीवं कार्येऽवधारणे' (इति मेदिनी) ॥ आलेख्याश्चर्ययोश्चित्रम् चिनोति । चीयते वा । 'अमिचि - ' ( उ० ४।१६४ ) इति ऋः । 'चित्राखपर्णीगोडुम्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् | तिलकालेख्ययोः क्लीवं कर्बु· राद्भुतयोरपि । तद्युक्तयोर्वाच्यलिङ्गं चित्री झिल्लयां नपुंसकम् । गोस्तने वस्त्र मेदे च रेखालिखनभेदयोः' (इति मेदिनी) ॥ कलत्रं श्रोणिभार्ययोः ॥ १७८ ॥ गडति । गड्यते वा । 'गड सेचने' ( स्वा०प० से ० ) । 'गडेरादेच कः' (उ० ३१०६) इत्यत्रन् । डलयोरेकत्वम् । कलं त्रायते वा । 'नैङ् पालने' (भ्वा० आ० अ०) । कः (३।२।१ ) | कडति कज्यते वा । 'कड शासने (मदे) ' (भ्वा०प० से ० ) । बाहुलकादत्रन् । 'दुर्गस्थाने नृपादीनां कलत्रं श्रोणिभार्ययोः' इति रभसः ॥