लिङ्गादिसँग्रहवर्गः ५ ] प० अ० ) । ‘आतोऽनुप्–’ (३।२।३) इति कः । गौरादिः (४ | १४१) छ । ऊरुसंधौ वातरोगः ॥ (१) ॥ ॥ चम्यते । 'चमु अदने' (भ्वा० प० से०) 'अत्यविचमितमि - ' ( उ० ३।११७) इत्यसच् । गौरादित्वात् (४|१|४१) ङीष् । 'च- मसो यज्ञपात्रस्य मेदेऽस्त्री पिष्टके स्त्रियाम्' (इति मेदिनी) ॥ (१) ॥ ॥ मस्यति । 'मसी परिणामे' ( दि ० प ० से ० ) । पंचाद्यच् (३।१।१३४) । ‘मेला मसीजलं पत्राञ्जनं च स्यांन्मसिद्वयोः' इति त्रिकाण्डशेषः ॥ इति स्त्रीलिङ्गशेषः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ४५३ तु बाधः । गण्डः, कपोलः । ओष्ठः, दन्तच्छदः, अधरः । दोः, प्रवेष्टः । भुजादेः 'द्वयोः' इति बाधः । दन्तः, द- शनः, रदः, । भेदः - जम्भः । कण्ठः, गलः । 'समीप- गलशब्देषु कण्ठं त्रिषु विदुर्बुधाः' इति शाश्वतः । केशः, कचः | नखः, पुनर्भवः । 'नखरोऽस्त्रियाम्' इति बाधः । स्तनः, कुचः, पयोधरः । अहश्च अहश्च अन्ते येषां ते पुंसि स्युः | परवलिङ्गापवादोऽयम् । अहः पूर्वम् - पूर्वाह्नः, अपराह्नः । द्वयोरहोः समाहारो व्यहः, त्र्यहः । अत्र 'स नपुं- सकम् (२२४११) इत्यस्यापवादः । क्ष्वेडो विषम् । तद्भेदाः पुंसि स्युः । सौराष्ट्रिकः, शौक्लिकेयः, ब्रह्मपुत्रः | रात्रोऽन्तो येषां ते । प्राक् पूर्वपदं न संख्या येषां ते पुंसि स्युः । परव- लिङ्गतापवादोऽयम् । परत्वात्समाहारनपुंसकतामपि बाधते । तेन अहोरात्रः । सर्वरात्रः, पूर्वरात्रः । 'प्रागसंख्यकाः' इति पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः । स्वर्गयागाद्रि मेघाब्धिदुकालासिशरारयः ॥ ११ ‘पुंस्त्वे’ इत्यधिकारः । सहृ भेदैरनुचरैश्च वर्तमानाः, सह किम् | पञ्चरात्रम् ॥ पर्यायैवर्तमानाः सुरासुराश्च देवदैत्याः | अमरा निर्जरा देवाः । सुरभेदाः-तुषिताः, साध्याः, आभाखराः इन्द्रः, शक्रः, सूर्य आदित्यः । देवानुचरा:- हाहाः, हूहूः, तुम्बुरुः, नारदः, मातलिः | असुरपर्यायाः दैत्याः, दैतेयाः, दानवाः । दैत्यभेदाः –बलिः, नमुचिः, जम्भः | दैत्यानुचराः - कूष्मा- ण्डमुण्डकुम्भाण्डादयः । ·‘दैवतानि' देवताः इत्यादौ बाधो- ऽस्य । स्वर्गादय एकोनविंशतिः समेदाः सपर्यायाश्च पुंसि स्युः । स्वर्गः, नाकः, त्रिदिवः । ‘द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्' इति । विशेषैर्बाधितः। यज्ञः, मखः, ऋतुः । तद्भेदाः- उक्थातिरात्राग्निष्टोमाश्वमेधाः | अद्रिः, गिरिः, पर्वतः । भेदाः- मेरुः, हिमवान्, सह्यः । ‘गन्धमादनम्' इति बाधः । मेघः, घनः, जलदः । मेदाः – पुष्करावर्तकादयः । 'अभ्रम्' इति तु बाधः । अब्धिः, समुद्रः सागरः | मेदाः-- क्षीरोदः, लवणोदः । द्वः, वृक्षः, शाखी । भेदाः - लक्षः, वटः, आम्रः । पाटलाशिंशपादेर्बाधः | कालः, दिष्टः, समयः, भेदाः -मासः । पक्षः, ऋतुः । दिनतिथ्यादौ बाधः । असिः, खज्ञः, मण्डलामः । भेदा:- नन्दकः, चन्द्रहासः । 'कटित्रम्' इत्यादौ बाधः । शरः, बाणः, विशिखः । भेदाः- नाराचः, काण्डः, भल्लः । 'इषु- र्द्वयोः’ इति बाधः । भरिः, शत्रुः, अरातिः । मेदाः- आततायी ॥ करगण्डौष्ठदोर्दन्तकण्ठकेशन खस्तनाः । अहाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः १२ करो राजप्राह्यो भागः रश्मिः, पाणिश्च | मरीच्यादीनां १- एवमिकारान्तत्वानुपपत्त्या चिन्त्यमेतत् । तस्मात् 'सर्व- धातुभ्य इन्' ( उ० ४|११८) इति बोध्यम् । ततः 'कृदिकारात्' (ग०४|१९४५) इति वा पू । अत एव 'अथ स्त्रीपुंसयोः के लिमैणियों निर्म सिर्मुनिः' इति त्रिकाण्डशेषः संगच्छते । २ - मूर्ध न्योषधोऽपि—। 'मलिनाम्बु मषीमसी' इति हैमात् । तत्र मपति हिनस्ति औज्ज्वल्यम् । 'मष हिंसायाम् (भ्वा०प० से० ) इति धातुर्योध्य श्रीवेशद्याश्च निर्यासा असन्नन्ता अबाधिताः । कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ॥ १३ ॥ श्रीवेष्ट आद्यो येषां ते निर्यासा वृक्षद्रवाः पुंसि स्युः । श्री वेष्टः, सरलः द्रवः । 'श्रीष्टिः' इति क्वचित्पाठः । आद्येन श्रीवासः, वृकधूपः, गुग्गुलुः, सिल्हकः इत्यादयः पुंसि बोध्याः । असन्ता अन्नन्ताश्च पुंसि स्युः | अङ्गिराः, वेधाः । चन्द्रमाः । कृष्णवर्मा, प्रतिदिवा, मघवा, । अबाधिताः किम् | अप्स- रसः, जलौकसः, सुमनसः, लोम, साम, वर्म | तुश्च रुश्च तुरू। तौ विरामौ विरामे वा येषां ते पुंसि स्युः । कशेर्वादीनि वि हाय | हेतुः, सेतुः, धातुः | कुरुः, मेरुः, त्सरुः । 'कशेरुज- तुवस्तूनि हिल्ला' इति व्यर्थम् । 'अबाधिताः' इत्यस्यान्वयसं- षैर्ययबाधितः' इत्यनेन निर्वाहात् । अाश्वादिषु भवात् । वस्तुतस्तु 'अबाधिताः' इत्यपि व्यर्थम् । 'विशे- निर्वाहः ॥ कषणभमरोपान्ता यद्यदन्ता अमी अथ | पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः ॥ १४ ॥ लोकः, अर्कः । माषः, तुषः, रोषः । पाषाणः, गुणः, घुणः । ककारादिद्वादशवर्णोपधा अदन्ताः पुंसि स्युः । अङ्क, दर्भसरभगर्दभाः | होमः, ग्रामः, धूमः | झर्झरः, शीकरः, समीरः, यूपः, कूपः, सूपः । कलापः | सार्थः, नाथः, श पथः । इनः अपघनः जनः | अपनयविनयप्रणयाः रा सपनसा: पटस (र) ट- करटाः | मुकुटस्तु — पोपान्तादिषु 'अ दन्ताः' इति न संबध्यते, अथादित्वात् - इत्याह । गोमा पाध्वादीनुदाहरति च । गोत्रं वंशं आख्यायते व्यपदिश्यते यै- स्ते । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति डः । गोत्र स्यादिपुरुषाः प्रवराश्च पुंसि स्युः | खामी तु 'अपत्यप्रययान्ताः' इति व्याख्यत् । तदसत् । 'अपत्यप्रत्ययान्तः' इत्यनेन पुनरु- क्तिप्रसङ्गात् । गौतमः, भरद्वाजः, वसिष्ठः | चरणानां वेदशा- ★ खानामाह्वया नामानि | कठः, कलापः, बह्वृचः ॥
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४६२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति