पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62-66 सटीकामरकोशस्य [ वैश्यवर्ग: ६२ ।। आर्षभ्यः षण्डतायोग्यः पॅण्डो गोपतिरिदूचरः ।। स्कन्धदेशे त्वस्य वहः साखा तु गलकम्बलः ॥ स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः || ६३ ॥ युगादीनां तु वोढारो युग्यप्रासङ्गचशाकटाः || खनति तेन तद्बोढाऽस्येदं हालिकसैरिकौ ॥ ६४ ॥ धूर्वहे धुर्यघौरेयधुरीणाः सधुरन्धराः ॥ उभावेकधुरीणैकधुरावेकधुरावहे ।। ६५ । स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः || माहेयी सौरभेयी गौरुस्रा माता च भृङ्गिणी ॥ ६६ ॥. २२६ वृषभस्य पोळ इति ख्यातस्य । सनोति ददाति गर्भ षण्ड: । इषा इच्छा चरति इट्चरः ।। ६२ ।। अस्य वृषभस्य स्कन्धदेशे वह: स्यात् एकं “खांदा इति ख्यातस्य" । सास्त्रा गलकम्बलः द्वे गोः कण्ठे लम्बमानस्य चर्मणः “सांकळी, कांबळ इति ख्यातस्य " । नस्तितः नस्योत: "नस्तोत इत्यपि पाठ: " द्वे स्यूतनासिकस्य "वेसण्या बैल इति ख्यातस्य " । नस्ये नासारन्ध्रे ऊतः रजवा प्रोतः नस्योतः । प्रष्ठवाद् “पष्ठवाडिति रेफरहितमिति स्वामी " | युगपार्श्वगः द्वे दमनार्थ युग्येन सह स्कन्धे बद्धकाष्ठस्य | युगस्य स्कन्धकाष्ठस्य पार्श्व गच्छतीति युगपार्श्वगः ॥ ६३ || युगस्य वोढा युग्यः । वत्सानां दमनकाले स्कन्धे काष्ठमासज्यते स प्रासङ्गः तस्य वोढा प्रासङ्ग्यः "लोढण्या बैल इति ख्यातः | शकटस्य वोढा शाकटः एकैकम् । तेन खनतीत्याद्यर्थे हालिक: सैरिकथ स्यात् । यथा हलेन खनति हालिकः । एवं हलस्य वोढा हलस्यायं वा हालिकः । एवं सीरेण खनति सीरस्य वोढा सीरस्यायं वा सैरिकः । सीरो हलस्य पर्याय: द्वे "नांगच्या बैल इति ख्यातस्य " ॥ ६४ ॥ धूर्वहः धुर्यः धौरेयः धुरीणः धुरन्धरः । धुरन्धरेण सहिताः सधुरन्धराः एते पश्च शब्दाः धुरन्धरवृषभस्य वाचकाः । धूर्वहशब्दो दीर्घादिः । “र्वोरुपघायाः" इति दीर्घः [ धुर्य इत्यत्र तु "न भकुर्कुराम् " इति दीर्घनिषेधः ] । एकधुरीणः एकधुरः एकधुरावहः त्रयं य एकामेव धुरं बहति तस्य ॥ ६५ ॥ यः सर्वामपि धुरं वहति स सर्वधुरीणः एकम् | माहेयी Diglized by Google