पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4. 32-35. सटीकामरकोशस्य [दिग्वर्गः३ किरणोसमयूखांशुगभस्तिपूणिरश्मयः ॥ भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥ स्युः प्रभारुशुचिस्त्विाभाश्छवियुतिदीतयः॥ रोचिः शोचिरुमे क्लीबे प्रकाशो द्योत आतपः॥ ३४ ॥ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तदति ॥ तिग्मं तीक्ष्णं खरं तद्धन्मृगतृष्णा मरीचिका ॥ ३५॥ ॥ इति दिग्वर्गः॥ ३॥ कालो दिष्टो ऽप्यनेहाऽपि समयोऽप्यथ पक्षतिः॥ प्रतिपढे इमे स्त्रीले तदाद्यास्तिथयो द्वयोः ॥१॥ कारतेजोविशेषस्य । परिवेषसाहचर्यात्परिधिः पुंसि ज्ञेयः। "मण्डल परिवेषश्च परिधियोपसूर्यकम्" इति भागुरिः॥३२॥ किरणः उसः मयूखः अंशुः गभस्तिः घृणिः। जिपति इति घृणिः। “घृक्षरणदीप्यो" " सेचने" वा । रश्मिः [धृष्णिः वृष्णिः पृभिः] भानुः करः मरीचिः दीधितिः एकादश किरणस्य । मरीचिः खीपुंसयोः। "द्वयोमरीचिःकिरणो भानुरुस्रः करः पदम्" इति शब्दार्णवः। "मरी- चिसुनिभेदे ना गभस्तावनपुंसकम्" इति मेदिनी च। दीधितिः स्त्रियाम् । खिया- मित्वस्य काकाक्षिगोलकन्यायेनोत्तरश्लोकेऽप्यन्वयः ॥ ३३ ॥ प्रभा रुक् रुचिः विद् भा भाः छविः श्रुतिः दीसिः रोचिः शोधिः इत्येकादश प्रभामात्रस्य । तत्र दीप्त्यन्तानि त्रियां स्युः। रोचिः शोचिः सान्ते क्लीवे । द्विवचनं तु रोचिषी शोचिषी । भाः सान्तः। प्रकाशः धोतः आतपः इति त्रयं सूर्यप्रमायाः प्रभामा- अस्पेत्येके॥३४॥ कोष्ण कवोष्णं मन्दोण कदुष्ण चतुष्टयमीषदुष्णे । इदै धर्ममात्रे रूपभेदात्लीवे । तद्वति धर्मिणि त्रिषु वाच्यलिङ्गमित्यर्थः । तिग्म तीक्ष्म खरं अयमत्युष्णस्य । तद्वत्कोष्णवत् । धर्मे क्लीब । धर्मिणि त्रिषु । मृगतृष्णा मरी- चिका द्वयं मृगजलस्य । मरुदेशादौ सिकतासु प्रतिच्छुरिताः सूर्यकिरणाः जलाकारेण भान्ति तस्य जलाभासस्येत्यर्थः ॥३५॥ इति दिग्वर्गः॥२॥ कालः। "कालो मृत्यौ महाकाले समये यमकृष्णयोः" इति कोशान्तरे । अन्यार्थेऽपि काल- शन्दः। दिष्टः अनेहा समयः चत्वारि कालस्य। अनेहा सान्तः। "ऋदुशन" इत्य- नछ। पचतिः पक्षस्य मूलम् । “पक्षतिस्तु भवेत्पक्षमूले च प्रतिपतिथी" इति । प्रतिपत् इमे रे प्रथमतियः । तदायाः प्रतिपदापालिथय इस्युच्यन्ते एकम् । Digitized by Google