पृष्ठम्:अलङ्कारमणिहारः.pdf/१२०

पुटमेतत् सुपुष्टितम्
114
अलंकारमणिहारे

 श्रीरुचिकनके उपचितं प्रत्युप्तं ‘हेम्नीवोपचितो मणिः’ इत्यादावुपचितशब्दस्य तथाविधार्थकत्वदर्शनात् । सिंहधराधरशेखरः शेषाद्रिश्रेष्ठः स एव सिंक्षळः द्वीपविशेषः तस्मिन् संभूतं ‘सिंहळस्याकरोद्भूता महानीलास्तु ते स्मृताः' इत्यगस्त्योक्तेः । हृदये मनसि वक्षसि च । अस्य सावयवरूपकस्य त्वनुवाद्यत्वमेव, विषयविषयिणोः पृथग्विभक्तेरश्रवणात् । उदाहरणद्वयेऽप्यवयविनोऽवयवानां च समस्तानां वस्तूनामारोप्यमाणानां शाब्दतया समस्तवस्तुविषयं सावयवरूपकम् ॥

 एकदेशविवर्ति सावयवं लक्षयति--

आरोप्यमाणं शाब्दं चेत्क्वचिदार्थं च कुत्रचित् ।
एकदेशविवर्त्याख्यमिदं सावयवं विदुः ॥ ४० ॥

 यत्र क्वचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिच्चार्थसामर्थ्याक्षिप्तं तत् एकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात् । स्वस्वरूपगोपनेनान्यथाभावेन वर्तनादेकदेशविवर्तीत्यर्थः । यद्वा--एकदेशे उपात्तविषयिके अवयवे विशेषेण वाच्यतया वर्तनादेकदेशविवर्तीति ।

 यथा--

 भवजलनिधिमतिविपुलं विविधमहावासनानदीशबलम् । लोकोऽयं तरतितरां काकोदरगिरिपतेरुपास्य कृपाम् ॥ १९६ ॥

 अत्र भवादिषु जलध्यादिरूपकैः कृपायां नौत्वमाक्षिप्यत इत्येकदेशविवर्ति रूपकम् ॥