पृष्ठम्:अलङ्कारमणिहारः.pdf/१३३

पुटमेतत् सुपुष्टितम्
127
रूपकसर‌ः‍‌‌‍ (७)

शयः । अत एव चतुर्थचरणनिवेदितः प्रसाधनान्तरतिरस्कारोऽपि संगच्छते ॥

 यथावा--

 विपुलाहिराजविपुलाधरविपुलावासरसिक कमलाक्ष । चपलावलाहकस्त्वं बहुशस्तोयश्श्रियं समेधयसे ॥ २११ ॥

 विपुलः विशालः अहिराजविपुलाधरः शेषाद्रिः तस्य विपुलयां भूम्यां वासे रसिक हे कमलाक्ष चपलावलाहकः लक्ष्मीविद्युद्वारिवाहः ‘चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' इति मेदिनी । त्वं बहुशः तोयश्रियं सलिलसंपदं समेधयसे । पक्षे-- बहुशस्तः अयः शुभावहो विधिः तस्य श्रियं संपदम् । यद्वा-बहुशस्तः यः श्रियमिति छेदः बहुशस्तः त्वं चपलावलाहकः यः त्वं श्रियं संपदं समेधयसे इति वाक्यभेदेन योजना । अत्र यच्छब्दस्योत्तरवाक्यस्थतया न पूर्ववाक्ये तच्छब्दोपादानावश्यकत्वम् । अत्रोभयोरप्यारोपयोः परस्परं समर्थ्यसमर्थकभावतौल्येऽपि चपला लक्ष्मीरेव चपला विद्युदिति श्लेषभित्तिकेनारोपेण भगवति बलाहकतादात्म्यारोपस्समर्थनीय इति कवयितुरभिप्रायः । अत एव चतुर्थचरणगतसभङ्गश्लेषावेदितं बहुशस्तोयश्रीसमेधनमपि युज्यते । उदाहरणद्वयेऽपि रूपकद्वयं कार्यकारणभावेन संजातपरंपरत्वात्परंपरितं श्लिष्टशब्दनिबन्धनं मालारूपत्वविरहात्केवलं च ॥

 तदेव मालारूपं यथा--

 सकलसुमनोवसन्तं साधुकदम्बस्य घनतटि-