पृष्ठम्:अलङ्कारमणिहारः.pdf/१३७

पुटमेतत् सुपुष्टितम्
131
रूपकसर‌ः‍‌‌‍ (७)

षां कुसुमाना चाभेदमात्रमत्र प्रतीयते नैकत्रान्यारोपः तस्य स्वतन्त्रविषयनिर्देशापेक्षत्वात् । न च शुद्धाभेदप्रत्यय एवारोपः, विषयनिगरणात्मिकायामतिशयोक्तावतिप्रसङ्गादिति चेत्--सत्यम्, श्लेषेण शुद्धाभेदप्रतीतौ सत्यां प्रकृतारोपसमर्थनाय अन्तरा मानसस्य भगवत्संबन्धिनि गिरौ शिरोरत्नसंबन्धिराजाभेदारोपस्य एवं भगवत्संबन्धिषु देवेषु वसन्तसंबन्धिकुसुमाभेदारोपस्य च कल्पनान्नानुपपत्तिः ॥

 अथ कथं--

 सौन्दर्यरत्नसिन्धुं सौभाग्यशरत्सरोजिनीबन्धुम् । स्वान्ते यतेय बन्धुं कौन्तेयसखं फणीन्द्रगिरिबन्धुम् ॥ २२० ॥

 इत्यादौ सौन्दर्यरत्नसिंधुमित्यादिपरंपरितरूपके रूपकत्वं, अभेदारोपस्य सत्त्वेऽपि तस्य सादृश्यमूलकत्वाभावात् । न हि भगवत्सिन्ध्योस्सादृश्यमत्रोच्यते इति चेत्, न--समर्थकेन सौन्दर्ये रत्नारोपेण धर्मैक्यसंपादने सादृश्यस्य निष्प्रत्यूहत्वादिति दिक् । बन्धुमिति बन्धतेस्तुमुन् ॥

 एवं ‘भूकेकिनीपयोदम्’ इत्यादावारोप्यमाणयोः परस्परमारोपविषययोश्चानुकूल्ये रूपकयोरनुग्राह्यानुग्राहकभावो दर्शितः ॥

 प्रातिकूल्ये यथा--

 कृतिपतिशतनुतशीलं दितिसुतसंघातभूतिवातूलम् । निलयितफणिपतिशैलं कलय परं हृदय दैवमतिवेलम् ॥ २२१ ॥