पृष्ठम्:अलङ्कारमणिहारः.pdf/१३९

पुटमेतत् सुपुष्टितम्
133
रूपकसर‌ः‍‌‌‍ (७)

 दुस्तृष्णा दुर्विषयलिप्सैव निरवधिकपिपासा । ‘तृष्णा स्यात्तर्षलिप्सयोः' इति मेदिनी । तस्याः कासारं सरः । भवाभितापा एव तापाः तेषां सासारं धारासहितं घनम् । जगतां आतङ्काः भयान्येव आतङ्काः रोगाः तेषां अगदंकारं वैद्यम् । आतङ्कस्संज्वरे रोगे साध्वसे मुरजध्वनौ’ इतिरत्नमाला ॥

 प्रातिकूल्ये केवलपरंपरितं यथा--

 अघयूधतिमिरधूननविभातमहिराजभूधरनिकेतम् । संप्राप्य भवनिशायां शयितः को नाम न प्रबोधमियात् ॥ २२५ ॥

 प्रातिकूल्ये मालापरंपरितं यथा--

 सौहार्दचन्द्रदर्शैस्सौमुख्यलतावानलस्पर्शैः । सौख्यजलातपमर्शैरलमन्यैस्त्वयि सतीश दुर्दर्शैः

 हे ईश भगवन् ॥

 यथा वा--

 दितितनुजमृगवितंसं दुरितद्विरदाळिकेसरिवतंसम् । फणिशिखरिप्रेयांसं भजे विपत्पाकघूककुलहंसम् ॥ २२७ ॥

 दितितनुजमृगाणां वितंसं बन्धनोपकरणं ‘वितंसस्तूपकरणं बन्धने मृगपक्षिणाम्' इत्यमरः । विपदां विपाकः परिपाकः स एव घूककुलं दिवान्धयूधं तस्य हंसं भानुम् । पूर्वमुदाहरणं भगवदितराश्रयणनिन्दनपरं, इदं तु भगवत्प्रशंसापरमिति विशेषः ॥