पृष्ठम्:अलङ्कारमणिहारः.pdf/१४५

पुटमेतत् सुपुष्टितम्
139
रूपकसर‌ः‍‌‌‍ (७)

चिका नूनम् । हृदयं शिरीषकुसुमं पदयुगमहिशैलदीप पद्मयुगम् ॥ २३५ ॥

 अत्र शिशिरांशुमरीचिवीचिकारूपके विषये भगवत्करुणायामुपचरितश्शिशिरतारूपो धर्मश्शब्देनोपात्तः । शिरीषकुसुमादिरूपके च मार्दवसौकुमार्यादिरुपचरितो धर्मो नोपात्तः ॥

 केवलश्लेषात्मको यथा--

 अचलशिखावलमाना सुशोभिनी राधिकाऽम्बरग्राही । (राधिकाधरामृतदा) । शम्पावनी दधाना श्रियमपि हरिमूर्तिरम्बुधरमाला ॥ २३६ ॥

 अचलशिखायां शेषाद्रिशिखरे वलमाना संचरन्ती, अन्यत्र अचलः स्थिरः शिखावलानां केकिनां मानः चित्तसमुन्नतिर्यस्यास्सेति पञ्चमीबहुवीहिः । सुष्ठु शोभत इति सुशोभिनी । राधिकाम्बरग्राही अम्बरं गृह्णातीत्यम्बरग्राही ‘कर्मण्यण्' इत्यणि अण्णन्तलक्षणो ङीप् । राधिकायाः अम्बरग्राही सिचयग्राहिणी । भगवत्कर्तृकस्याम्बरग्रहणस्य तद्विग्रहे उपचारः । पक्षे--सुशोभि यत् नीरं जलं तेन अधिका । भिन्नं पदम् । अम्बरं अन्तरिक्षं गृह्णाति स्वसंचारार्थमादत्त इत्यम्बरग्राही गगनचारिणीति यावत् । द्वितीयार्धस्य ‘सुशोभिनी राधिकाधरामृतदा’ इति पाठान्तरम् । तदा सुशोभिनी उक्तोऽर्थः । राधिकायाः अधरामृतं ददातीति तथोक्ता राधायै स्वाधरसुधां प्रयच्छन्तीत्यर्थः । अन्यत्र सुशोभिनीरेण अधिका अत एव धरायाः भुवः अमृतदा सलिलवर्षिणीत्यर्थः । शं पावनीति भिन्ने पदे पावनी पवित्रा