‘अभिविधौ संपदा च' इति कृभ्वस्तियोगे वैकल्पिकतया विहितस्सातिप्रत्ययः । अभिविधिर्व्याप्तिः । समुन्नता समधिका श्रीः किसलयकुसुमादिशोभा यासां ताः लताः शाखाः ‘समे शाखालते' इत्यमरः । ताभिः मनोज्ञं अभिरामं वपुर्यस्य स ततोक्तः हरिचन्दनतरुः भुजगेन्द्रभूभृति मलयगिराविति गम्यते । इन्धे इति योजना ॥
अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम् ॥ यथा--
अम्बुरुहलोचनोऽयं जम्बूतरुरेव शातकुम्भाद्रौ हरति कथमितरथा पृथुमधुरफलैश्छायया च जनतापान् ॥ २३८ ॥
शातकुम्भाद्रौ शेषाद्रौ । पृथुभिः विपुलैः मधुरैः आस्वादनीयैः प्रियैश्च फलैः प्रसिद्धैः, मुक्त्यैश्वर्यान्तैः प्रयोजनैश्च छायया अनातपेन दिव्यमङ्गळविग्रहलावण्येन च । जनानां तापान् आतपभवान् आध्यात्मिकादींश्च । अत्र श्लेषेण जम्बूतरोर्भगवति ताद्रूप्यप्रत्ययाद्धि रूपकम् । हेतुस्तु श्लिष्ट एव । एवमन्येऽपि प्रकारा विज्ञेयाः ॥
सरिदधिपयशोबृन्दं सरसीरुहनाभलोचनानन्दम् । करयुगधृतारविन्दं शरणं तत्किमपि दैवतमविन्दम् ॥ २३९ ॥
अत्र उपमेये उपमानस्य नारोपः अपितु कारणे कार्यस्येति न रूपकं भवतीति प्राचीनाः । एतन्मतानुसारेणैवास्मा-