पृष्ठम्:अलङ्कारमणिहारः.pdf/१६

पुटमेतत् सुपुष्टितम्
10
अलंकारमणिहारे

 देवस्य श्रीनिवासस्य छन्दसः अभिलाषस्य अनुगुणः अनुरूपः ‘छन्दः पद्येऽभिलाषे च' इति सान्तनानार्थेष्वमरः । श्रीनिवासप्रीत्युचित इत्यर्थः । पक्षे अनुगतो गुणेन अनुगुणः ‘अवादयः क्रुष्टाद्यर्थे तृतीयया’ इति समासः । उपमादयः अलङ्कारा एव सरसाः रमणीयाः सराः यष्टयः तेषां शतं भजतीति तथोक्तः । 'लतिका लडिका यष्टिस्तुल्यार्थास्स्युस्सरस्सरिः' इत्युक्तेः । अत एव देवच्छन्दः तन्नामा, ‘देवच्छन्दोऽसौ शतयष्टिकः' इत्यनुशासनात् । ललितः अलङ्कारमणिहारः एतन्नामा प्रबन्धः । पक्षे-–अलङ्काररूपश्चासौ मणिहारश्च लक्ष्मीवल्लभस्य हृदये मनसि वक्षसि च दीव्यात् प्रकाशताम् ॥ २४ ॥

 सिन्धुमिवास्मद्ग्रन्थं मन्थानेनेव चेतसा मथ्नन् । विषमिव दोषं हित्वा मणिमिव गुणमाददातु विबुधेन्द्रः ॥ २५ ॥

इत्यलङ्कारमणिहारे अलङ्कारप्रबन्धे उपोद्धातः




जयतु श्रीवृषाद्रिस्थं जगत्रितयरक्षणम् ।
वदान्यं परमं ब्रह्म वक्षोऽलङ्कारलक्षणम् ॥ १ ॥

 वक्षसः अलङ्कारः आभरणभूतं लक्षणं श्रीवत्सचिह्नं यस्य तत् । अनेनालङ्कारलक्षणत्वमस्यानुष्टुभप्रबन्धस्य सूचितम् । अयमलङ्कारलक्षणारम्भश्लोकः ॥