पृष्ठम्:अलङ्कारमणिहारः.pdf/१८४

पुटमेतत् सुपुष्टितम्
178
अलंकारमणिहारे

 यथा वा--

 मिहिरकरमसृणनिजरुचिमरकतशिखरं नु फणभृदचलेऽस्मिन् । कमलारुचिरुचिरं किं ब्रह्म परं कृष्णपिङ्गळं यदिदम् ॥ ३११ ॥

 यदिदं पुरस्तात् दृश्यमानं वस्तु कृष्णं च तत्पिङ्गळं श्यामलपिशङ्गवर्णं ‘वर्णो वर्णेन' इति समासः । ‘पुरुषं कृष्णपिङ्गळम्' इति श्रुतिरत्र स्मारिता । अत्र वक्तुः कवेस्तत्त्वज्ञतया संदेह आहार्य एव । अत्र मिहिरकरकमलारुच्योर्बिम्बप्रतिबम्बभावः मसृणनिजरुचिरुचिरयोर्वस्तुप्रतिवस्तुभावः, कृष्णपिङ्गळमित्यस्यानुगामिता च द्रष्टव्या ॥

 श्लेषात्मकोऽपि धर्मस्संभवति यथा--

 सिंहलसद्गोत्राकरभवनोऽयं किं महामहानीलः । उत भगवानिति कवयोऽप्यतिसांशयिका विलोक्य शौरे त्वाम् ॥ ३१२ ॥

 सिंहलस्य सिंहलद्वीपस्य सती प्रशस्ता गोत्रा भूः तस्यां यः आकरः खनिः तत्र भवनं उत्पत्तिः यस्य स इति महानीलपक्षे । ‘सिंहलस्याकरोद्भूता महानीलास्तु ते स्मृताः’ इत्यगस्त्योक्तेः । भगवत्पक्षे--सिंह इति लसन् प्रकाशमानः गोत्रश्शैलः सिंहाद्रिः शेषगिरिरित्यर्थः । स एवाकर आधारो यस्य तत्तथोक्तं भवनं दिव्यालयः सत्ता वा यस्य स तथोक्तः ॥

 विषयिणां विषयविषयिणोर्वा सादृश्यमूलकसंदेह एवायमलंकारः, न तु केवलसंदेहे । तेन--