पृष्ठम्:अलङ्कारमणिहारः.pdf/१९६

पुटमेतत् सुपुष्टितम्
190
अलंकारमणिहारे

 यथा वा--

 हरिकरनिहितं शङ्खं कतिचन हंसं परे सिताम्भोजम् । अभिदधतु व्रजमुषितं नवनीतं ब्रूमहेऽधुनाऽपि धृतम् ॥ ३२८ ॥

 इयमपि निरवयवा । अत्राप्यपह्नवपूर्वक आरोपः। अपह्नवस्तु परपक्षोपन्यासादार्थिकत्वेन व्यवहितः ॥

 यथा वा--

 मणिमकुटतरणितक्षणजनिता यमुनैव भाति तव वदने । मृगपतिगिरिवरशेखरमृगमदतिलकं वदन्त्यमूं मुग्धाः ॥ ३२९ ॥

 यथा वा--

 हरिचरणविमुखमनसां निलयं सन्तो विदुर्निरयमेव । रलयोरभिदाश्रयणाद्वदन्त्यनुद्वेजनाय निलय इति ॥ ३३० ॥

 अत्रोदाहरणद्वयेऽप्यपह्नुतिर्निरवयवैव । अपह्नवस्त्वारोपपूर्वक इति विशेषः । ताद्रूप्यस्य शाब्दत्वं निषेधस्यार्थत्वं विधेयत्ववाक्यभेदौ पूर्ववदेव । हरिचरणविमुखमनसां निलयं सन्तो निरयमेव विदुः । तर्हि निरय इत्येव कुतो न व्यवहरन्तीत्यत आह--रलयोरिति । रलयोरभेदमाश्रित्य निरयमेव निलयं वदन्तीत्यर्थः । तदपि कुत इत्यत आह--अनुद्वेजनायेति । निरय इत्युच्यमाने उद्विजेरन्निमे लोका इति निलय इति वदन्ति । ‘ययाऽ-