पृष्ठम्:अलङ्कारमणिहारः.pdf/२०१

पुटमेतत् सुपुष्टितम्
195
अपह्नुतिसरः‍‍(१३)


 अत्र चपलत्वहेतुकनित्यनिवासासंभवसंभावनारूपयुक्त्या लक्ष्म्यां लक्ष्मीत्वनिह्नवः स्थिरतरकुरुविन्ददीपरेखात्वारोपार्थः ॥

 यथा वा--

 नाङ्कोऽयमुरसि शौरेर्निसर्गतोऽमुष्य निष्कलङ्कत्वात् । रतिखेदसुप्तकमलानयनाञ्जनबिन्दुरिह न संदेहः ॥ ३४२ ॥

 अत्र भगवतो निष्कलङ्कत्वरूपयुक्त्या अङ्के अङ्कत्वनिह्नवः अञ्जनबिन्दुत्वारोपार्थः ॥

अथ पर्यस्तापह्नुतिः.


पर्यस्तापह्नुतिर्यत्र क्वचित्तद्धर्मनिह्नवः ।
वर्णनीये तदारोपफलको वर्ण्यते यदि ॥ ५१ ॥

 यत्र क्वचिद्वस्तुनि तदीयधर्मापह्नवो वर्णनीये वस्तुनि तस्य धर्मस्यारोपार्थो वर्ण्यते चेत्सा पर्यस्तापह्नुतिः ॥

 यथा--

 यदिह परस्ताद्रजसस्स्थानं पदमामनन्ति परममिति । परमं न पदं तत्स्यादपि तु फणाधरपतिक्षितिभृदेव ॥ ३४३ ॥