पृष्ठम्:अलङ्कारमणिहारः.pdf/२११

पुटमेतत् सुपुष्टितम्
205
अपह्नुतिसरः‍‍(१३)

 सर्वमिदं विषयान्तरयोजनायामुदाहरणम् । विषयैक्येऽप्यवस्थाभेदेन योजनायां यथा--

 कृष्णो मम कमन इति ब्रुवती भर्त्रे सखीभ्रमादथ तम् । ज्ञात्वा सखि किं जगद स्वप्नादहमित्यपूरि धूर्तैका ॥ ३५८ ॥

 अत्र विवक्षितं श्रीकृष्णविषयकानुरागवृत्तान्तं निद्राजागर्याव्यतिकरजातात्सहशयाने भर्तरि सखीभ्रमादुदीरितवत्या कयाऽपि गोपिकया तावतैव जागरूकतया भर्तृज्ञानजनितभयसंभ्रान्तया तद्वृत्तान्ततत्परस्य वाक्यस्य स्वप्नावस्थागततद्वृत्तान्तपरत्वं सखि किं जगद स्वप्नादहमिति शेषपूरणेन तत्रापि जगदेति पारोक्ष्याभिधायिलि़डुत्तमप्रयोगेण च स्फुटीकृतम् । अत्र नायिकाविवक्षितश्रीकृष्णानुरागवृत्तान्तस्य यथार्थभूतजागरावस्थागतत्वनिह्नवोऽर्थसिद्ध इति लक्षणानुगतिः कार्या । जगदेत्यत्र 'णलुत्तमो वा' इति णित्त्वस्य वैकल्पिकत्वान्नोपधावृद्धिः । अपूरीत्यत्र कर्तरि लुङि 'दीपजनबुधपूरि' इत्यादिना वैकल्पिकश्चिण् । अपूरयदित्यर्थः ॥

 यथा वा--

 स्वैरं व्यहरावाहं शौरिश्चेति प्रमादतो गदितम् । काऽपि वधूर्गुरुनिकटे बाल्यमयन्त्रणमिति स्म पूरयति ॥ ३५९ ॥

 काऽपि वधूः गोपस्नुषा अहं शौरिश्च स्वैरं व्यहराव विहृतवन्तौ इति विपूर्वकाद्धरतेर्लङुत्तमद्विवचनम् । गुरुनिकटे श्वश्रू-