पृष्ठम्:अलङ्कारमणिहारः.pdf/२१३

पुटमेतत् सुपुष्टितम्
207
अपह्नुतिसरः‍‍(१३)

भोक्तुं उपभोक्तुं अन्यत्र सहभोजनाय, माणवकदशायां पुमांसः कन्याभिस्सह स्वैरं भुञ्जत इति प्रसिद्धमेवेदम् । आह्वयत् आहूतवान् इति अवशात् प्रमादात् उक्त्वा बाल्ये शैशवे मैत्री सख्यं अकृत्रिमा निर्व्याजेत्यगदीत् अवादीदित्यर्थः । बाल्ये मैत्रीत्याद्युक्तिस्स्वोक्तस्यार्थस्य बाल्यनिर्वर्तितत्वद्योतनाय ॥

कैतवापह्नुतिः--

छलच्छद्मनिभाद्यैश्च वपुरात्मादिकैः पदैः । निह्नुतिश्चेदभिव्यङ्ग्या कैतवापह्नुतिर्हि सा ॥ ५४ ॥

 अत्र छलादिशब्दा विषयासत्यत्वप्रतिपादकाः । वपुरादिशब्दास्तु विषयासत्यत्वपर्यवसायिन इति विवेकः ।छलादीत्यादिपदेन कपटकैतवव्याजमिषापदेशोपधिदम्भादिशब्दा गृह्यन्ते । वपुरात्मादीत्यादिपदेन रूपनामरीतिभङ्ग्यादिशब्दा इति ध्येयम् ॥

 यथा--

 धरणीनिभरमणीमणिफणिशिखरिच्छलकुचाग्रविन्यस्तः । हरिकैतवमृगमद इह हरतां स्वगुणेन जडतां नः ॥ ३६१ ॥

 स्वगुणेन ज्ञानशक्तिवात्सल्यादिना अन्यत्र औष्ण्येन जडतां अज्ञतां शैत्यं च हरतां अपनयतात् । प्रसिद्धं ह्यज्ञानहारित्वं हरेः शैत्यहारित्वं मृगनाभेश्च । अत्र विषयासत्यत्वप्रतिपादकनिभच्छलकैतवशब्दैर्नेयं धरणी किंतु रमणीत्यादिनिषेधबोधनादेकवाक्यत्वं निषेधताद्रूप्ययोरार्थत्वं विधेयत्वं च, जडताहरणस्य विधेयत्वात् । सावयवा चेयं अनुग्राह्यानुग्राहकभावापन्नावयवकसंघातरूपत्वात् ॥