पृष्ठम्:अलङ्कारमणिहारः.pdf/२१९

पुटमेतत् सुपुष्टितम्
213
उत्प्रेक्षासरः(१४)

 इत्यत्र दुन्दुभिप्रभृतिकोलाहलदिगन्तरालव्याप्तिरूपजययात्राप्रवृत्तधर्मसंबन्धप्रयुक्तायां भगवति तत्संभावनायामपि नातिव्याप्तिः । तस्या अनाहार्यत्वात् । ‘संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये’ इति संभावनालंकारवषये--

 यदि जलधिर्विजलस्स्याद्यदि विसुवर्णस्सुवर्णभूभृत्स्यात् । जह्याद्रक्षादीक्षामह्यद्रिशिखामणिस्तदा मन्ये ॥ ३७३ ॥

 इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम् । अत्र यदि जलधिर्विजलस्स्यादित्यादिसंभावनस्य विषयिनिष्ठधर्मसम्बन्धप्रयुक्तत्वाभावात् ॥

 काकोदरगिरिमेनं लोकोत्तररामणीयकं मन्ये । पदमपि परमं विजहद्विहरति यदिह श्रिया सह मुकुन्दः ॥ ३७४ ॥

 इत्यादावतिप्रसङ्गवारणाय तन्निष्ठेति संभाव्यमानवृत्तित्वं धर्मविशेषणम् । तत्र परमपदत्यागपूर्वकश्रीसहितविहरणरूपो धर्मो मुकुन्दवृत्तिः । न तु संभाव्यमानवृत्तिरिति नातिप्रसङ्गः । ननु संबन्धान्तरेणोत्प्रेक्षाया असंग्रह इति चेन्न । सर्वत्राभेदैनैवोत्प्रेक्षणमिति प्राचीनमतानुरोधेनैवमभिधानात् । एतत्सूचनायैव लक्षणे तादात्म्योपादानमिति ध्येयम् ॥

 सा चोत्प्रेक्षा वस्तुहेतुफलात्मतागोचरतया त्रिविधा, वस्तुहेतुफलात्मता च वस्तुहेतुफलतादात्म्यम् । अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्यसंभावना प्रथमा वस्तूत्प्रेक्षेत्युच्यते ।