पृष्ठम्:अलङ्कारमणिहारः.pdf/२२

पुटमेतत् सुपुष्टितम्
16
अलंकारमणिहारे

४.उपमेयवाचकलुप्ता । एवमुपमानलोपरहिताश्चत्वारो भेदाः । ५.उपमानलुप्ता । ६.वाचकोपमानलुप्ता । ७. धर्मोपमानलुप्ता । ८.धर्मोपमानवाचकलुप्ता । एवमुपमानलोपसहिताश्चत्वारो भेदाः इति लुप्तोपमा अष्टविधाः ॥

 तत्र वाचकलुप्ता यथा--

 चन्दिररुचिरनिटालं सुन्दरतरवार्षिकाम्बुदविनीलम् । मन्दरधरमहिगिरिपतिकन्दरधामास्तु नाम हृदि धाम ॥ २८ ॥

 अत्र चन्दिररुचिरनिटालं सुन्दरतरवार्षिकाम्बुदविनीलमित्युभयत्रापि वाचकलोपः चन्दिर इव रुचिरं वार्षिकाम्बुदमिव विनीलमित्यर्थे “उपमानानि सामान्यवचनैः' इति समासविधायकशास्त्रनिबन्धनः ॥

 धर्मलुप्ता यथा--

 शरदिन्दुसदृशवदनं स्फुरदिन्दिरमहिगिरीन्द्रकृतसदनम् । कुन्दसुमोपमरदनं बृन्दं महसां धुनोतु भयकदनम् ॥ २९ ॥

 भयकदनं भवभयसंमर्दं ‘कदनं मर्दने पापे' इति विश्वः । अत्र शरदिन्दुसदृशवदनं कुन्दसुमोपमरदनमित्युभयत्रापि धर्मलोपः। स त्वैच्छिकः न तु शास्त्रविहितः आह्लादनादिना शरदिन्दुसदृशवदनमित्यादेरपि सुवचत्वात् ॥