पृष्ठम्:अलङ्कारमणिहारः.pdf/२२४

पुटमेतत् सुपुष्टितम्
218
अलंकारमणिहारे

 अत्रापि कर्णाभरणमौक्तिकसंबन्धिप्रकाशस्य तत्कर्तृकहासतादात्म्योत्प्रेक्षा अनुक्तविषया । प्रकाशस्य विषयस्य निगीर्णत्वादिति बोध्यम् ।

 सिद्धविषया हेतूत्प्रेक्षा यथा--

 खञ्जनरुचिखञ्जनबलभञ्जनमणिमञ्जुरुचिनिचयनिचुले । अञ्जनशिखरिणि सततासञ्जनतो नूनमसित एष हरिः ॥ ३७९ ॥

 खञ्जयति गतिविकलं करोतीति खञ्जनः । खञ्जनरुचेः खञ्जरीटाख्यखगत्विषः खञ्जनः ततोप्यतिशयितनीलिमेत्यर्थः । ‘खञ्जरीटस्तु खञ्जनः, खोडे खञ्जः' इति चामरः । बलभञ्जनमणयः इन्द्रनीलरत्नानि तेषां मञ्जुरुचिनिचयः निचुळः निचोळः यस्य तस्मिन् ‘निचुळस्तु निचोलके' इति विश्वः । निचोलः प्रच्छदपटः ‘विनयनिचुलितैः' इति मुरारिप्रयोगश्च । अत्र भगवतो नैसर्गिके श्यामलिम्नि वस्तुतोऽञ्जनगिरिसततासञ्जनं न हेतुरित्यहेतोस्तस्य हेतुत्वसंभावना हेतूत्प्रेक्षा अञ्जनगिरिसततासञ्जनस्य सिद्धत्वात्सिद्धविषया अञ्जनशब्दश्लेषभित्तिकाभेदाध्यवसायमूला । प्रसिद्धं ह्यञ्जनस्य नैल्यम् ॥

 असिद्धविषया हेतूत्प्रेक्षा यथा--

 श्रीवत्स इति हरे त्वं वात्सल्यादिव रमाश्रये हृदये । किंचन लाञ्छनमञ्चसि कञ्चुकिवरभूभृदञ्चलाभरण ॥ ३८० ॥

 श्रीवत्सः लक्ष्मीपुत्रः ‘वत्सः पुत्रादिवर्षयोः' इति मेदिनी । ‘वत्सस्सुतादौ तर्णके त्रिषु' इति रत्नमाला च । पक्षे श्रीवत्स