पृष्ठम्:अलङ्कारमणिहारः.pdf/२२६

पुटमेतत् सुपुष्टितम्
220
अलंकारमणिहारे

तिकृदन्ततद्धितान्तसमस्तसर्वनामसंख्याशब्दातिरिक्तश्शब्दो गुणवचनशब्देनोच्यते । आकडारसूत्रभाष्यतस्तथैव लाभात् । अत एव 'एकतद्धिते च' इति सूत्रे भाष्ये ‘एकत्वमिति पुंवत्त्वात्सिद्धम्' इत्याशङ्क्य 'न सिध्यति उक्तमेतत् । त्वतलोर्गुणवचनस्य' इत्युक्तम् । एकशब्दे सर्वनामसंज्ञया गुणवचनसंज्ञाया बाध इति तदाशयः । इदं च ‘त्वतलोः' इति सूत्रशेखरे स्पष्टम् । अत्र विद्युतो मुखविकारवत्त्वादिके नैसर्गिके लक्ष्मीरुचिपरास्तत्वं न हेतुरिति तद्धेतुत्वसंभावना हेतूत्प्रेक्षा । वस्तुतस्तत्परास्तताया अभावादसिद्धविषया श्लेषोत्तम्भिता । पूर्वोदाहरणे वात्सल्यादिति हेतुत्वं तावत्पञ्चम्यैव निर्दिष्टम्, अत्र तु जितेति धर्मिविशेषणतया जयस्य हेतुत्वमार्थम् । यथा 'पूजितस्तुष्यति' इत्यादौ पूजनादेः ।

 ननु कथं विद्युच्छब्दगतं विप्रभृतिवर्णवत्त्वं तद्वाच्ये वस्तुनि संभवेत्, येन उपपादितश्लेषमूलकाभेदकल्पनेन उक्तोऽर्थो निरुह्येतेति चेत् । शब्दार्थतादात्म्यस्य साम्राज्यादित्यवेहि । तथा ह्याहुश्शाब्दिकाश्शब्दशक्तिनिरूपणावसरे–-"संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दस्सोऽर्थो योऽर्थस्स शब्दः" इति पातञ्जलभाष्यमुदाहरन्तः पदपदार्थयोस्संबन्धान्तरमेव शक्तिर्वाच्यवाचकभावापरपर्याया । तद्ग्राहकं चेतरेतराध्यासमूलं तादात्म्यं तदेव सम्बन्धः । उभयनिरूपिततादात्म्यवानुभय इत्यर्थपदयोर्व्यवहारात् । तस्य च तादात्म्यस्य निरूपकत्वेन विवक्षितोऽर्थश्शक्यः, आश्रयत्वेन विवक्षितशब्दश्शक्तः। शब्दार्थयोस्तादात्म्यादेव श्लोकमशृणोत् अर्थं वदतीति व्यवहारः 'आमित्येकाक्षरं ब्रह्म, रामेति द्व्यक्षरं नाम मानभङ्गः पिनकिनः, वृद्धिरादैच्’ इति शक्तिग्राहकश्रुतिस्मृतिविषये