पृष्ठम्:अलङ्कारमणिहारः.pdf/२२७

पुटमेतत् सुपुष्टितम्
221
उत्प्रेक्षासरः(१४)

समानाधिकरण्येन प्रयोगश्च । तादात्म्यं च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वमिति भेदाभेदसमनियतम् । अभेदस्याध्यस्तत्वाच्च न तयोर्विरोधः' इति । विस्तरस्तु मञ्जूषादौ । तस्माच्छब्दार्थतादात्म्यावलम्बनेन विद्युच्छब्दगतमपि विप्रभृतिवर्णवत्त्वं तदर्थेऽपि निरर्गळमेवेत्युपपादितोऽर्थो निरुह्यत इति न संकटं किंचित् । एवमेवान्यत्रापि बोद्धव्यं बुद्धिमद्भिः ॥

 यथा वा--

 अर्थिजनपीडनानामसासहिमहिर्नूनमहिमहीध्रमगाः । क्व वसन्तमर्थिनिवहा वदान्यमब्जाक्ष जीवयन्त्येते ॥ ३८२ ॥

 अर्थिजनपीडनानां असासहिर्नूनं असहिष्णुरिव ‘सासहि वावहि' इत्यादिना यङन्तात्सहतेः किप्रत्ययान्ततया निपातनात्साधुः । पीडनानामिति कर्मणि षष्ठी । अहिमहीध्रं शेषाद्रिं आशीविषमयं गिरिमित्यपि गम्यते । अतिभयंकरत्वेनान्यदुर्गमत्वमनेन द्योत्यते । अगाः प्राप्तवानभूः । हे अब्जाक्ष ! एते परसंकटं मनागप्यनालोचयन्तस्स्वार्थैककृपणा इति भावः । अर्थिनिवहाः वदान्यं प्रियवचनपुरस्सरदानशीलं क्व वसन्तं जीवयन्तीति लोकोक्तिः । न खलु सुदुर्गममपि प्रदेशमास्थितवन्तं न पीडयेरन्निति भावः । अत्र भगवतोऽहिमहीध्रप्राप्त्यहेतोरप्यर्थिजनपीडनासहिष्णुत्वस्य तद्धेतुत्वसंभावना असिद्धविषया, तादृशासहनस्यासिद्धत्वात् । अत्रापि पूवोदाहरण इव हेतुरार्थः । पूर्वोदाहरणद्वयं श्लेषसंकीर्णम् । इदं तु शुद्धमिति वैलक्षण्यम् ॥