पृष्ठम्:अलङ्कारमणिहारः.pdf/२३८

पुटमेतत् सुपुष्टितम्
232
अलंकारमणिहारे

 शुद्धानुपात्तनिमित्ता यथा--

 हरफालनयनवितनुं स्मरममुनैवोपजीवयितुमनसा । हरिणा स्वफालकलितं नयनमिवोर्ध्वाञ्चलं जयति तिलकम् ॥ ३९७ ॥

 हरस्य फालनयनेन वितनुं विगतशरीरं स्मरं अमुनैव फालनयनेनैव उपजीवयितुमनसा हरिणा श्रीनिवासेन स्वस्य फाले ललाटे कलितं सृष्टं 'कवीनां कलिः कामधेनुः'इत्याहुः । ऊर्ध्वं अञ्चलं अग्रं यस्य तत्तथोक्तं नयनमिव तिलकं कस्तूरीचित्रकं जयति लोके नयनयोर्वर्तुलमूलत्वकुञ्चितसूक्ष्माग्रत्वदर्शनेन तिलकस्य तत्संभावनालाभाय ऊर्ध्वाञ्चलं नयनमित्यभिहितम् । न हि नयनस्योर्ध्वाञ्चलत्वमन्तरेण वर्तुलमूलाकुञ्चितसूक्ष्माग्रकस्तूरीतिलकतादात्म्यसंभावनं संभवति । अत्र हरहरिशब्दाभ्यां हरणरूपप्रवृत्तिनिमित्तकाभ्यामुभयोस्तौल्यनिमित्तकस्पर्धा द्योत्यते । सा चोपपादिताया उत्प्रेक्षाया उपस्कुरुत इत्यवधेयम् । अत्र नयनत्वजात्यवच्छिन्नतादत्म्यसंभावनायां नैल्यादिनिमित्तमनुपात्तम् ॥

 यथावा--

 शिखरगशिखिपिञ्छाञ्चलचन्द्रकमाला रमानिवासगिरेः । फणिभूभृत्त्वं प्रथयितुमुन्मिषिता लसति नयनमालेव ॥ ३९८ ॥

 फणिभूभृत्त्वं भुजगराजत्वं शेषाद्रित्वं च । अत्र चन्द्रकमालायां जातौ नयनमालाजात्यवच्छिन्नं संभाव्यते । श्यामारुणत्वादिनिमित्तमनुपात्तम् ॥