पृष्ठम्:अलङ्कारमणिहारः.pdf/२४६

पुटमेतत् सुपुष्टितम्
240
अलंकारमणिहारे

रधवलिम्ना । स्फुटमपहसति महीध्रान् स्फटाधरगिरिर्हरिं वहन्नन्यान् ॥ ४१२ ॥

 अत्रापहसनक्रियाभावस्वरूपोत्प्रेक्षायां स्फटिकशिलाशिखरधावळ्यरूपगुणो निमित्तमुपात्तम् ॥

 उपात्तक्रियानिमित्तकभावस्वरूपोत्प्रेक्षा यथा--

 तुङ्गेभ्यश्शृङ्गेभ्यस्समुद्गिरन्निर्झरानुदारतरान् । स्वस्मिन्मुकुन्दवासानन्दाद्बाष्पायते किल वृषाद्रिः ॥

 बाष्पमुद्वमति बाष्पायते ‘बाष्पोष्मभ्यामुद्वमने’ इति क्यङ् । अत्र बाष्पोद्वमनरूपक्रियाभावस्वरूपोत्प्रेक्षायां निर्झरोद्गिरणक्रियानिमित्तमुपात्तम् ॥

 एवमुपात्तद्रव्यनिमित्ताऽप्युदाहार्या ।

 यथा वा--

 करपद्मेन द्वेषान्मध्ये भित्वा प्रकोष्ठके प्रोतम् । क्रन्दति सितकरबिम्बं शिञ्जन्मणिवलयमम्ब तव मन्ये ॥ ४१४ ॥

 अत्र प्रथमान्तविशेष्यकशाब्दबोधवादिनामभेदसंसर्गेण शिञ्जद्विशिष्टे मौक्तिकवलये करपद्मकर्तृकद्वेषहेतुकमध्यच्छिद्रीकरणपूर्वकप्रकोष्ठाधिकरणकप्रवयनकर्माभिन्नोत्प्रेक्षितसितकरबिम्बतादत्म्योत्प्रेक्षणपूर्वकं क्रन्दनकर्तृत्वं धर्म उत्प्रेक्ष्यते । तत्र तादात्म्योत्प्रेक्षणे धर्म्युत्प्रेक्षायां साधारणो धर्मः, संबन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्च विषयगतो निमित्तमिति स्थिते प्रस्तुते क्रन्दनकर्तृत्वरूपधर्मोत्प्रेक्षायां तत्स-