पृष्ठम्:अलङ्कारमणिहारः.pdf/२५१

पुटमेतत् सुपुष्टितम्
245
उत्प्रेक्षासरः(१४)

निखिलम् । दृश्येऽपि गिरिसहस्रे निश्शैलमिवातिवेलमाभाति ॥ ४२२ ॥

 अत्र निश्शैलमिति जात्यभावोत्प्रेक्षायां शेषाद्रिमहिमव्याप्तत्वलक्षणक्रियारूपं निमित्तमुपात्तम् । एवं उपात्तजातिद्रव्यनिमित्तके जात्यभावस्वरूपोत्प्रेक्षे अप्युदाहार्ये ॥

 यथा वा--

 महिमा विजृम्भतेऽसावहिमूर्धन्याचलावतंसस्य । सकलमपि दैवतान्तरविकलं किल भुवनमाचरन्कोऽपि ॥ ४२३ ॥

 अत्र दैवतान्तरविकलमिति जात्यभावोत्प्रेक्षायां निमित्तमनुपात्तम् ॥

 गुणाभावस्वरूपोत्प्रेक्षा यथा--

  विमलविशृङ्खलविसृमरकमलारुचिनिचयपरिचयपिशङ्गम् । फणिगिरिमस्तकरत्नं प्रत्यस्तमितात्मनीलिमेवासीत् ॥ ४२४ ॥

 अत्र नीलगुणाभावोत्प्रेक्षायां कमलारुचिनिचयपरिचयपिशङ्गत्वगुणो निमित्तमुपातम् ॥

 एवमुपात्तजातिक्रियाद्रव्यनिमित्तकाः अनुपात्तनिमित्तका च गुणाभावस्वरूपोत्प्रेक्षा उदाहार्याः ॥

 क्रियाभावस्वरूपोत्प्रेक्षा यथा--

 कन्दर्पकोटिकोटिप्रयुतायुत दिव्यरूपलावण्यम् । निर्वर्ण्य वृषाद्रीन्दुं निस्पन्द इवाभवन्निखिललोकः ॥