पृष्ठम्:अलङ्कारमणिहारः.pdf/२५८

पुटमेतत् सुपुष्टितम्
252
अलंकारमणिहारे

 हे मुरारे! सुश्रीकाः एलाः एलालताः ताभिः समृद्धं, अन्यत्र ऋद्धं समृद्धं सुश्रीश्चासौ कैलासश्च तं तन्नामानं कलधौतगिरिं कनकाचलं शेषाद्रेरेव नामान्तरमिदमित्यवोचामासकृत् । पक्षे रजतगिरिम् । ‘कलधौतं रूप्यहेम्नोः' इत्यमरः । अधिवसता श्रीदेन भवता अपरेण श्रीदेन कुबेरेणेव सा उत्तरा श्रेष्ठा आशा पुरुषार्थविषयकतृष्णा, आशासानानामिति शेषः । अलं पर्याप्ता कृता परिपूरितेत्यर्थः । पक्षे उत्तराशा उदीची दिक् अलंकृता भूषिता । 'भूषणेऽलम्' इति गतिसंज्ञायां ‘कुगति' इति समासः । तदधीशत्वात्तस्येति भावः । अत्र श्रीदेनेति द्रव्यस्य उत्तराशालङ्करणहेतुत्वेन संभावनं श्लेषोत्तम्भितम् । अत्रापरशब्दाप्रयोगे प्राचां मते शब्दमात्रसाधर्म्यात् श्लेष एव स्यात् । नवीनपक्षे अर्थसाधर्म्ये तु श्रीदस्य सिद्धतया उपमैव । तत्प्रयोगे तु प्रकृतो भगवानेवापरश्रीदत्वेनाध्यवसीयते, तस्य इवशब्देन साध्यत्वप्रतीतेरुत्प्रेक्षैव । इवशब्दाप्रयोगे तु सिद्धत्वादध्यवसायस्यातिशयोक्तिः । इवापरशब्दयोरुभयोरप्यप्रयोगे रूपकमित्यादयो विशेषा यथासंभवमूह्याः ॥

 इदमुदाहरणद्वयं विद्यानाथानुरोधेन । तेन हि--

प्रतापरुद्रदेवेन क्ष्माभृत्पक्षविजृम्भितम् ।
समुन्मूलितमामूलादपरेणेव वज्रिणा ॥

इति द्रव्यहेतूत्प्रेक्षा उदाह्रियत । यद्यपीदं पद्यं द्रव्यस्वरूपोत्प्रेक्षाया एवोदाहरणं भवितुमर्हति । अत्र हि इवशब्दापनयने प्रतापरुद्रे विषये अपरवज्र्यभेदरूपकमेवेति तावदविवादम् । तथाच सति तत्र इवशब्दयोजने प्रतापरुद्रे अपरवज्रिरूपद्रव्यस्वरूपोत्प्रेक्षैव इवशब्देन प्रत्याय्येत । यत्र असतीवशब्दे यत्पदार्थे यत्पदार्थरूपकं तत्रैव सतीवशब्दे तत्पदार्थे तत्पदार्थस्व-