पृष्ठम्:अलङ्कारमणिहारः.pdf/२६४

पुटमेतत् सुपुष्टितम्
258
अलंकारमणिहारे

निमित्तमिति क्रियानिमित्तद्रव्यफलोत्प्रेक्षा । एवं जात्यादिनिमित्ता अपि द्रव्यफलोत्प्रेक्षा उदाहार्याः ॥

 अथाभावाभिमानवत्यः फलोत्प्रेक्षाः--तत्र जात्यभावफलोत्प्रेक्षा यथा--

 यमलार्जुनयोर्हरिपदकमलामर्शाद्विमुक्तिमालोच्य । मन्ये वसन्त्यहिगिरावन्ये तरवोप्यभूरुहत्वाय ॥ ४४७ ॥

 अत्राभूरुहत्वायेति जात्यभावः फलत्वेन संभाव्यते । विमुक्त्यालोचनक्रिया निमित्तमिति क्रियानिमित्तजात्यभावफलोत्प्रेक्षा । एवं जात्यादिनिमित्ता अप्यूह्याः । अभूरुहत्वाय अतरुत्वाय भुविजननाभावाय च, निश्श्रेयसायेति यावत् ॥

 गुणभावफलात्प्रेक्षा यथा--

 तैक्ष्ण्यमिह लोकबन्धोरनुचितमिति कौस्तुभोभवन्भास्वान् । नूनमतैक्ष्ण्याय हरेर्हृदयं श्रयते कृपाझरीशिशिरम् ॥ ४४८ ॥

 अत्रातैक्ष्ण्यायेति गुणभाव फलत्वेनोत्प्रेक्ष्यते । कृपाझरीशिशिरहरिहृदयाश्रयणक्रिया निमित्तम् । एवं जात्यादिनिमित्ता अपि ज्ञेयाः ॥

 क्रियाभावफलोत्प्रेक्षा यथा--

 सर्वेषां स्वदयिततमहृदयस्थित्यनवलोकनायेव । विद्युत्प्रभानिभाभिस्स्वभाभिराच्छादयति दृशो लक्ष्मीः ॥ ४४९ ॥