पृष्ठम्:अलङ्कारमणिहारः.pdf/२६५

पुटमेतत् सुपुष्टितम्
259
उत्प्रेक्षासरः(१४)

 सर्वेषामित्येतत् दृश इत्यत्रान्वेति । अत्रावलोकनक्रियाया अभावः फलत्वेनोत्प्रेक्ष्यते । आच्छादनक्रिया निमित्तम् । एवं जातिगुणद्रव्यनिमित्ता अपि विभावनीयाः ।

 द्रव्याभावफलोत्पेक्षा यथा--

 हिमशिखरित्रिदशसरित्कलशोदधिगिरिशशशिविलोपाय । शङ्केऽहिशैलशेखरयशोविलासो दिशो विशो (भ)धयते ॥ ४५० ॥

 अत्र हिमशिखरिमुखद्रव्याभावः फलत्वेन संभाव्यते विशो (भ) धनक्रिया निमित्तम् । एवमेवान्यदप्यूह्यम् ।

 इह जात्यादयो हि भेदाः प्राचामनुरोधादुदाहृताः । वस्तुतस्तु नैतेषामस्ति चमत्कृतौ वैलक्षण्यमित्यनुदाहरणीया एवैते । चमत्कृतिवैलक्षण्यं स्वरूपहेतुफलात्मकानां त्रयाणां प्रकाराणामेवेति ध्येयम् ॥

 एवं— मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।

उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोपि तादृशः ॥

 इत्युक्तप्रकारवाचकशब्दघटिताः वाच्योत्प्रेक्षाः पदर्शिताः । तदप्रयोगे गम्योत्प्रेक्षा भवति ॥

 तत्र वस्तूत्प्रेक्षा यथा--

 ईप्सितसरा निकामं तव सरहिततां मदम्ब गच्छन्ती । प्राप्यातान्तोन्मुखतां सरोजयुग्यलमभूदुरोजयुगी ॥ ४५१ ॥