पृष्ठम्:अलङ्कारमणिहारः.pdf/२६६

पुटमेतत् सुपुष्टितम्
260
अलंकारमणिहारे

 सरोजयुगी निकामं ईप्सिताः सराः मुक्ताहाराः यया सा ईप्सितसरा । पक्षे– ईप्सितं सरः कासारो यस्यास्सा ईप्सितसराः । सान्तोऽयं शब्दः । तव सरहिततां हारहितत्वं अन्यत्र सवर्णरहितत्वं गच्छन्ती ‘लक्षणहेत्वोः' इति शता । हेतुरिह फलम् । गन्तुमित्यर्थः । अन्यत्र हेत्वर्थे । अत एव अलं अतान्ता अम्लाना सती उन्मुखतां औत्सुक्यं, पक्षे अतान्तोन्मुखतामिति समस्तं पदम् । अतान्तः तवर्णरहितचरमभागः उत् उवर्ण इत्यर्थः । उदित्यत्र तकारोत्सादने उ इत्येवावशेषात् । सः मुखे प्रारम्भे यस्यास्सा तस्याः भावः अतान्तोन्मुखता तां 'शरदः कृतार्थता’ इत्यादाविव सामान्ये नपुंसकं ततस्तल् । प्राप्य तव उरोजयुगी स्तनद्वयी अभवत् तत्त्वेन जातेत्यर्थः । पक्षे उक्तरीत्या सरोजयुगीशब्दः उरोजयुगीशब्दो निष्पन्न इत्यर्थः । अत्र उरोजयुग्यास्सरोजयुगीतादात्म्योत्प्रेक्षायां वाचकश्शब्दो नोपात्त इति प्रतीयमानेयम् ॥

 तत्रैव हेतूत्प्रेक्षा यथा--

 नीलानयनेन्दीवरविसृमररुचिनिचयसततपरिचयतः । चक्षुश्श्रुतिगिरिशिखरे साक्षाद्ब्रह्मात्तमेचकिम भाति ॥ ४५२ ॥

 अत्र परिचयत इति हेतूत्प्रेक्षायां वाचकश्शब्दोऽनुपात्त इतीयमपि प्रतीयमाना अर्थसामर्थ्यावसेयत्वात् ॥

 तत्रैव फलोत्प्रेक्षा यथा--

 नन्वम्ब कर्णतां स्वामन्वर्थयितुं तव श्रवणयु-