पृष्ठम्:अलङ्कारमणिहारः.pdf/२७६

पुटमेतत् सुपुष्टितम्
270
अलंकारमणिहारे


 अत्र भगवत्कथायां माधुर्यगाम्भीर्यवैशद्यशैशिर्यविगाहनानां मुख्यानामसंभवादास्वादाविक्षोभसुप्रवेशत्वतापहरणश्रवणानाममुख्यानामुपचारेण मुख्यैस्साधारणीकरणम् । लक्षणया शक्याभेदेन लक्ष्यबोधनात् ।

 अभेदाध्यवसायमात्रेण यथा--

 सरिदधिपसुतासद्मन्युरसि हरेर्नः कुतो निवास इति । हर्षादिव कृतहासा हारा नारायणाद्रिशेखर ते ॥ ४६६ ॥

 अत्र प्रकाशप्रकटनहासकरणयोरभेदाध्यवसाय एव हर्षहेतूत्प्रेक्षानिमित्ततयोपात्तस्य हासकरणस्य प्रकटितप्रकाशकृतहासोभयसाधारण्ये बीजम् । एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वा उत्प्रेक्ष्यते सोऽनेन प्रकारेण साधारणीकृतो निमित्तमित्यवोचामासकृत् ॥

 एवं क्वचिदुपात्तो धर्म विषयविषयिसाधारण्यविरहादचारुत्वाद्वा स्वयमुत्प्रेक्षां साक्षादुत्तम्भयितुमनीशोऽपि तदुत्तम्भनपटुधर्मान्तरोत्तम्भनेनाकूल्यसंपादनादुपयुज्यते ।

 यथा--

 मधुभेदनजययात्रादुन्दुभिनिनदैस्तथा दिशो व्याप्ताः। श्रोत्रेन्द्रियसृष्टिकथादूरमिवासीद्यथाऽखिलं भुवनम् ॥ ४६७ ॥

 अत्र दिशां दुन्दुभिनिनव्याप्तिरूपो धर्म उपात्तो भुवनस्य श्रोत्रेन्द्रियसृष्टिकथादूरत्वसंभावनायां वैयधिकरण्येनाप्रयो-