पृष्ठम्:अलङ्कारमणिहारः.pdf/२९३

पुटमेतत् सुपुष्टितम्
287
अतिशयोक्तिसरः (१५)

 अत्र कदाचिल्लोचनासञ्जितात्स्वातिरिक्तनिधिव्यञ्जकात्प्रसिद्धाञ्जनादञ्जनाभेदाध्यवसितस्य कदाचिल्लोचनगोचरीकृतस्य भगवतस्सततमपि स्वाभिन्ननिधिव्यञ्जकतोक्तेराधिक्यं द्रष्टव्यम् ॥

 यथा च--

 जाम्बूनदाद्रिशृङ्गे जम्बूरद्भुततमेयमुद्भूता । न फलप्रत्ययलोपो यस्याः परिदृश्यते कदाचिदपि ।

 जाम्बूनदाद्रेः शेषगिरेः शृङ्गे अद्भुततमा इयं जम्बूः जम्बूत्वेनाध्यवसितो भगवानिति भावः । उद्भूता अवतीर्णा । अद्भुततमत्वमेवाह-नेत्यादि । यस्याः जम्ब्वाः फलैः प्रत्ययः प्रथितत्वं तस्य लोपः फलवत्ताप्रसिद्धयभाव इत्यर्थः ॥

 प्रत्ययः प्रथितत्वेऽपि सनादिज्ञानयोरपि।
आचारे शपथे रन्ध्रे विश्वासाधीनहेतुषु ॥

इति मेदिनी । भगवत्पक्षे तु-- फलप्रत्ययस्य तत्तदभीप्सितप्रयोजनसिद्धिविषयकविश्वासस्येत्यर्थः । लोपः कदाचिदपि न परिदृश्यते । प्रसिद्धजम्ब्वाः कदाचित्फलप्रसिद्धिलोपस्संभवेदपि अस्यास्तु न तथा । एतदाश्रितानामीप्सितं फलं सिध्यति वा न वेति विशयेन विश्वासलोपः कदाचिदपि न भवेदिति भावः । पक्षे जम्बूः जम्बूशब्दः अर्थगतस्य स्त्रीत्वस्य शब्दे आरोपः । अद्भुततमा । तदेवाह-- नेति । यस्याः पञ्चम्येकवचनमिदम् । फलप्रत्ययलोपः कदाचिदपि न परिदृश्यते । जम्बूशब्दात्फलरूपेऽर्थे वैकारिके अणि ‘जम्ब्वा वा’ इति वैकल्पिके लुप्यनुशिष्टेऽपि अस्याः जम्बूशब्दव्यक्तेः कदाचिदपि फलप्रत्ययलोपः फलार्थविहिताण्प्रत्ययलोपः न दृश्यत इत्यद्भुतत्वमिति भावः ।