पृष्ठम्:अलङ्कारमणिहारः.pdf/२९४

पुटमेतत् सुपुष्टितम्
288
अलंकारमणिहारे

वास्तवार्थस्तूक्त एव । अत्र प्रसिद्धजम्ब्वपेक्षया प्रसिद्धजम्बूशब्दापेक्षया च जम्बूत्वेनाध्यवसितस्य भगवत उक्तरीत्याऽऽधिक्यं श्लेषमूलकं द्रष्टव्यम् । शब्दपरार्थान्तरं चमत्कारातिशयाय ॥

 न्यूनाभेदरूपकातिशयोक्तिर्यथा--

 सौशील्यमुख्यशुभगुणराशीन्भवतो हरे श्रुतिशतोक्तान् । अविदन्तः पशवोऽमी विनदन्त्यचतुष्पदा वृथा दिक्षु ॥ ४९७ ॥

 अत्र पश्वभेदेनाध्यवसितानामचतुष्पदत्वोक्तेर्न्यूनता ॥ अनुभयाभेदरूपकातिशयोक्तिस्तु 'तिमिरनिरासपटीयान्, मधुरान्सुधाप्रवाहान्’ इति प्रागुदाहृतपद्यद्वये द्रष्टव्या ॥

 अधिकताद्रप्यरूपकातिशयोक्तिर्यथा--

 नीरन्ध्रगुणप्रोतं स्फारं विशदयति निजरुचिभिरमृतम् । अन्यदिदमासितरत्नं धन्यं मां विदधदहिशिखरिखनिजम् ॥ ४९८ ॥

 नीरन्ध्रैः सान्द्रैः गुणैः सर्वज्ञत्वादिभिः प्रोतं संवलितम् । अन्यत्र नीरन्ध्रं सुषिरंविरहितं तथाऽपि गुणेन तन्तुना प्रोतं स्यूतं चेति विशेषणोभयपदकर्मधारयः । अहिशिखरिखनिजं न तु सिंहलाकरजं अन्यत् लोकविलक्षणं इदं असितरत्नं महानीलरत्नं तत्त्वेनाध्यवसितश्श्रीनिवास इति यावत् । मां धन्यं कृतार्थे धनं लब्धारं च विदधत्सत् निजरुचिभिः स्वविषयकप्रीतिविशेषैः अन्यत्र स्वप्रभाभिः । अमृतं स्वानुभवरूपं मुक्त्यैश्वर्यं विशदयति विवृणुते । पक्षे अमृतं क्षीरं विशदयति पाण्डुरं