पृष्ठम्:अलङ्कारमणिहारः.pdf/२९७

पुटमेतत् सुपुष्टितम्
291
अतिशयोक्तिसरः (१५)

भयं तस्य दमनं ग्रीष्मातपोष्मप्रशमथितारमित्यर्थः । पक्षे तपनो नरकविशेषः ‘तपना ग्रीष्मभल्लातनरकान्तरभास्कराः’ इति रत्नमाला । तस्मात् उद्भवो य ऊष्मा तापः तद्भयस्य शमनम् । यद्वा-तप्यते अनेनेति तपनः तापहेतुः उद्धतश्चासौ भवस्संसारः तस्मिन् ये ऊष्माणः आध्यात्मिकादयस्तापाः तद्भयशमनमित्यर्थः । कमपि घनाघनं श्रीनिवासमिति यावत् । कलयन् सेवमानः उज्जीवनं उत्कृष्टं सलिलं, पक्षे उत्तरणमिति यावत्। लभेय नूनमिति संभावनायाम् । अत्र ‘स्वोज्जीवनेच्छा यदि ते' इत्यादिकं स्मर्तव्यम् । उदाहरणद्वयेऽपि कमपीत्यनेन लोकसिद्धघनाद्वैलक्षण्यं प्रदर्शितं न त्वाधिक्यं न्यूनता वेत्यनुभयताद्रूप्यरूपकातिशयोक्तिरियं श्लेषोज्जीविता ॥

 इदं सर्वं कुवलयानन्दाद्यनुरोधेन । जगन्नाथस्तु ‘विषयिवाचकपदस्य विषये साध्यवसानलक्षणायाश्शक्यतावच्छेदकमात्रप्रकारकलक्ष्यविशेष्यकवोधत्वं कार्यतावच्छेदकम् । एवंच निगरणे सर्वत्र विषयितावच्छेदकधर्मरूपेणैव विषयस्य भानं न विषय्यभिन्नत्वेनेति स्थिते अभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति द्वैविध्यमयुक्तम्' इत्यभाणीत् । अत्र वैद्यनाथः—'इदं प्रौढिविलसितं, शक्यतावच्छेदकस्य लक्ष्ये पूर्वमप्रतीतत्वेन तद्विशिष्टतया लक्षणाया असंभवात् । यद्धर्मविशिष्टे शक्यसंबन्धग्रहस्तद्धर्मप्रकारकलक्ष्योपस्थितेस्समानप्रकारकशाब्दबोधे हेतुत्वात्, लक्षणापरिहार्याया अनुपपत्तेस्तदवस्थत्वाच्च । एवमपि तात्पर्यवशात्तादृशबोधाङ्गीकारे तद्वशादेव शक्याभेदप्रकारकबोधेऽपि बाधकाभावान्मात्रपदेन विषयतावच्छेदकस्यैव व्यावर्तनात् ’ इत्यवादीत् ॥