पृष्ठम्:अलङ्कारमणिहारः.pdf/३०६

पुटमेतत् सुपुष्टितम्
300
अलंकारमणिहारे

 हे मुराराते ! त्वं जातु कदाचित् रणेनोसुके समरे उद्युक्ते ‘प्रसितोत्सुकाभ्यां तृतीया च' इति रणशब्दात्तृतीया । अत एव जागरं कवचं ‘जागरः कवचोस्त्रियाम्' इत्यमरः । विविक्षति प्रवेष्टुमिच्छति न तु प्रविष्टे सति द्विषन्निवहः रणरणकेन भयसंभ्रमेण सदा न तु कदाचित् जागरं कवचं निद्राक्षयं च विशति प्राप्नोति । अत्र कवचसन्नद्धत्वरूपहेत्वभावेऽपि तदिच्छामात्रेण रिपूणां निद्राक्षयरूपकार्यं वर्णितम् ॥

 अत्रोदाहरणद्वयेऽपि प्रसिद्धश्रीनिवाससेवनयुद्धसन्नद्धत्वादिकारणविरहेऽपि सिषेविषुगृहाधिकरणकश्रीविहरणद्विषत्कर्तृकजागरणप्राप्तिरूपकार्योदयवर्नाद्विभावनालंकारेणैव चमत्कृतेर्ने चपलातिशयोक्तिरित्यलंकारान्तरमभ्युपेयम्, ‘अप्यलाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ' इति लाक्षारसासेचनरूपकारणविरहेऽपि रक्तिमलक्षणकार्योदयवर्णनलक्षणविभावनातो वैलक्षण्याभावात् । अत एव नैनां व्यवजह्रिरे प्राञ्चः । दीक्षितास्तु-विभावनायां कारणाभावो वाच्यः,अत्र कारणप्रसक्तिकथनेन कारणाभावो गम्य इत्येतावन्मात्रेण विच्छित्तिविशेषसद्भावमनुसंधायालंकारान्तरमाहुः ॥

हेतोः कार्यस्य च स्याच्चेत्पौर्वापर्यविपर्ययः ।
अत्यन्तातिशयोक्तिं तामाहुः काव्यविचक्षणाः ॥

 यथा--

 एनांसि दवीयांसि श्रेयांसि च पुरत एव भूयांसि । पश्चान्नृणां रसज्ञा वेङ्कटनाथाभिधामृतरसज्ञा ॥५१९ ॥