पृष्ठम्:अलङ्कारमणिहारः.pdf/३१५

पुटमेतत् सुपुष्टितम्
309
तुल्ययोगितासरः (१६)

मानोप्यस्ति' इत्यनुशासनात् । भवन्तिरिति लटस्संज्ञा । 'भुवो झिच्’ इत्यौणादिको भवतेर्झिच्प्रत्ययः । ‘झोऽन्तः ’ इति झस्यान्तादेशः । आस्तेक्रियाया’ अप्रयोगेऽपि तदाक्षेपश्शीघ्रोपस्थितिकत्वात् । तर्हि प्रतिवाक्यमपि कुतोनाध्याह्रियतामिति चेन्न । लाघवादेकत्राध्याहृतस्यैवान्यत्रानुषञ्जनीयताया न्याय्यत्वात् । विश्वेश्वरीयालंकारकौस्तुभे ईदृशमुदाहरणं प्रदर्शितम् ॥

 अप्रकृतानामेव यथा--

 मानववर्गो निखिलो दानववर्गश्च नमति नन्तव्यम् । अहिराजगिरिखिशामणिमत्र कथं नमदभेदवार्ता स्यात् ॥ ५२९ ॥

 नन्तव्यं ‘नन्तव्यः परमश्शेषी' इत्युक्तरीत्या सर्वशेषितया नमिकर्मीकरणार्हं अहिराजगिरिशिखामणिं निखिलो मानववर्गो दानववर्गश्च नमति । अत्र नमतां मानवानां दानवानां च वर्गे अभेदवार्ता कथं स्यात्, नमने अवैलक्षण्येऽपि मानवानां दान वानां च परस्परं वैलक्षण्यादिति भावः । यद्वा-अत्र नन्तव्ये भगवति अभेदवार्ता नमद्भिस्सहाभेदकथा कथं स्यात् । नन्तृनन्तव्ययो शेषशेषिणोरभेदायोगादिति भावः । अथवा अत्र नमतोर्मानवदानववर्गयोः मदभेदवार्ता मदो नाम कुलशीलाद्यभिमानेनान्यावधीरणहेतुश्चित्तविकारविशेषः यो ह्यरिषड्वर्गे गणितः । तस्य भेदवार्ता विदारणवृत्तान्तः कथं न स्यात् भगवत्प्रणन्तॄणां कामादिनिखिलदोषदूरीभावादिति भावः । पक्षे—अत्र मा नवदानववर्गशब्दयोः मदभेदवार्ता मकारदकारयोर्वैलक्षण्यकथा कथं न स्यात् । तावन्मात्रभेदस्य दृश्यमानत्वादिति भावः । अत्राप्रकृतयोर्मानवदानववर्गयोर्नमनक्रियारूपधर्मैक्यम् ॥