पृष्ठम्:अलङ्कारमणिहारः.pdf/३१६

पुटमेतत् सुपुष्टितम्
310
अलंकारमणिहारे

यथा वा--

 यत्साधुमनीषायां पररूपं स्फुरति तद्धि मार्तण्डेऽपि । आह सदाकृतिगण्यं परमेकं श्रुतिरवैमि शाब्दोक्तिश्च ॥ ५३० ॥

 यत् परस्य ब्रह्मणो रूपं साधूनां योगिनां मनीषायां बुद्धौ स्कुरति,

एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥

इति श्रुत्युक्तरीत्या अन्तर्यामिविग्रहावशिष्टं स्वरूपं सूक्ष्मदर्शिभिस्सूक्ष्मया बुद्ध्या ऐकाग्र्यसंपन्नया दृश्यत इत्यभिप्रायः । तद्धि तदेव ‘हि हेताववधारणे' इत्यमरः । पररूपं परस्य ब्रह्मणो रूपं ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ’ इत्यादि श्रुतं दिव्यमङ्गळविग्रहविशिष्टं स्वरूपं मार्तण्डे आदित्येऽपि स्फुरति दीप्यते । कथमनयोरैक्यं त्वया विदितमित्यत्राह-आहेति । श्रुतिः ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ’ इति श्रुतिः सदाकृतिगण्यं सत्या आकृत्या विग्रहेण गण्यं प्रशस्यमिति यावत् । दिव्यमङ्गळविग्रहविशिष्टमित्यर्थः । परं परमात्मस्वरूपं उभयत्र विद्यमानमिति भावः । एकं अभिन्नं आह अवैमि तस्माज्जाने, वाक्यार्थः कर्म । शब्दोक्तिश्चेममेवार्थमाह-तथाहि, पक्षे यत् साधु सम्यगनुशिष्टं पररूपं पूर्ववर्णस्य परवर्णतापत्तिरूप एकादेश इत्यर्थः । मनीषायां मनीषाशब्दे स्फुरति प्रकाशते । तत्र मनस ईषेति विग्रहे नकारानन्तरभाविनः अस् इत्यस्य ईकाररूपपरवर्णरूपसंपत्तेः स्फुटत्वादिति भावः । तद्धि