पृष्ठम्:अलङ्कारमणिहारः.pdf/३२१

पुटमेतत् सुपुष्टितम्
315
तुल्ययोगितासरः (१६)

 अवतो जगन्ति भगवन्भवतो महसा फणीन्द्रगिरिभास्वन् । द्विषतां तन्महसामपि निकुरुम्बं निजगृहेऽप्यभासि खलु ॥ ५३७ ॥

 भवतो महसा तेजसा द्विषतां निकुरुम्बं निजगृहे निगृहीतं, निपूर्वकाद्ग्रहेः कर्मणि लिट् । अत एव अभासि द्विषन्निग्रहीतृत्वादेव तेन व्यरोचीति भावः । भासतेर्भावे लुङि चिण् । अपिस्समुच्चये । तन्महसां द्विषत्तेजसां निकुरुम्बमपि निजगृहेऽपि स्वभवनेऽपि भासो भासनं प्रकाशः, भासतेर्घञ । सोऽस्यास्तीति भासि तन्न भवतीत्यभासि । स्वगेहेऽप्यप्रकाशं किमुतान्यत्रेति भावः । खल्विति प्रसिद्धौ । अत्राप्रकृतयोर्द्विषत्तत्तेजसोस्साधारणगुणक्रियाभावाच्छब्दमात्रं श्लेषमूलकाभेदाध्यवसानसंपिण्डितोऽर्थो वा धर्मः ॥

 यथावा--

 विन्दन्परमघवत्त्वं त्वयेक्षितो जन उपेक्षितश्चाम्ब । शाम्यति महामरावत्युदीर्णतृष्णोऽभ्युदूढलेखश्च ।। ५३८ ॥

 हे अम्ब ! त्वया ईक्षितः जनः परं श्रेष्ठं च तन्मघवत्त्वं इन्द्रत्त्वं, पक्षे परमिति व्यस्तं पदम् । अत्यन्तमिति तदर्थः । अघवत्त्वं दुःखित्वं पापित्वं व्यसनित्वं वा ‘अंहो दुःखव्यसनेष्वघम्' इत्यमरः । विन्दन्, अभ्युदूढाः सर्वापद्भ्यस्समुद्धृताः लेखाः,देवाः येन स तथोक्तः । पक्षे अभ्युदूढाः वहनकर्मीकृताः लेखाः राजकीयपत्राणि येन स तथोक्तः । लेख-