पृष्ठम्:अलङ्कारमणिहारः.pdf/३२२

पुटमेतत् सुपुष्टितम्
316
अलंकारमणिहारे

वाहक इत्यर्थः । ‘लेखो लेख्ये सुरे' इति मेदिनी । महती च सा अमरावती च तस्यां उदीर्णा तृष्णा उत्तरोत्तराभिवर्धनस्पृहा यस्य स तथोक्तः । पक्षे महति मरौ धन्वभूमौ 'समानौ मरुधन्वानौ' इत्यमरः । अत्युदीर्णा अतिमात्रप्रवृद्धा तृष्णा पिपासा यस्य स तथोक्तः । ‘तृष्णे स्पृहापिपासे द्वे' इत्यमरः । श्राम्यति एकत्र देवोद्धरणादिव्यापारैः अन्यत्र लेख्यवहनादिभिरिति भावः । अत्रापि पूर्ववदेव धर्मो ज्ञेयः ॥

 इयं बिम्बप्रतिबिम्बभावेनापि दृश्यते, यथा अश्रूदञ्चति चक्षुषि वपुषि च पुलकः' इत्यादिप्रागुदाहृतपद्ये चक्षुर्वपुरादीनां बिम्बप्रतिबिम्बभावः । एवमन्यत्रापि द्रष्टव्यम् ।

 केचित्तु रशनारूपाऽपीयं दृश्यत इति वदन्ति ।

 सा यथा--

 मीनचकोरकुरङ्गास्संगाहन्ते वनं त्वदक्षिजिताः। विद्रुमपल्लवबिम्बान्यप्यम्ब त्वदधरावधूतानि ॥

 वनमित्यत्र यथार्हमरण्यमुदकं चेत्यर्थो ग्राह्यः । विद्रुमाणामब्धिजन्यत्वाद्वनस्थितिः । मीन इव चकोरश्चकोर इव कुरङ्ग इति प्रतीतेः रशनारूपतेति ध्येयम् । वस्तुतस्त्वियं बहूनामप्रस्तुतानामेकधर्मान्वयरूपैव तुल्ययोगिता । लक्षणे वर्ण्यानामन्येषां वेति बहुवचननिर्देशात् ॥

 यत्र च प्रकृतानामेव वा अप्रकृतानामेव वा क्रियाणां एककारकान्वयस्साकारकतुल्ययोगितेति जगन्नाथादयः ॥

 स यथा--

 भर्तुं जगन्ति भुवमुद्धर्तुं हर्तुं प्रपन्नजनविपदम् ।