पृष्ठम्:अलङ्कारमणिहारः.pdf/३२६

पुटमेतत् सुपुष्टितम्
320
अलंकारमणिहारे

 अहितः सतां द्वेषे रुचिर्यस्य तथोक्तः अमार्गे शास्त्रविरुद्धे पथि प्रवणः अरिष्टेन अशुभेन अन्वितः अत्यन्तं रिक्तः तुच्छः आत्मा बुद्धिर्यस्य स तथोक्तः ‘वशिकं तुच्छरिक्तके' इत्यमरः । बुद्धिहीन इत्यर्थः । क्रियते । हितश्चैवं क्रियते । पक्षे - सन् प्रशस्तः वेषः रुचिरशास्त्रीयतया रमणीयः यो मार्गः पन्थाश्च तयोः प्रवणः । ‘वयसः कर्मणोऽर्थस्य’ इत्युक्तरीत्या वयःकर्माद्यनुरूपवेषादिक इति भावः । अरिष्टेन शुभेन अन्वितः ‘अरिष्टे तु शुभाशुभे' इत्यमरः । अतिरिक्तः समधिकः आत्मा स्वभावो यस्य स तथोक्तः । लोकोत्तरस्वभाव इत्यर्थः । ‘अतिरिक्तस्समधिकः' इत्यमरः । क्रियते विचित्रम्॥

 यथावा--

 स्फुटमणिकान्तिकमच्युत विदधानं प्राग्र्यभाश्रितं राष्ट्रम् । हन्त कुलालंकृत्यायोग्यं हितमहितमपि तनोषि जनम् ॥ ५४८ ॥

 हे अच्युत ! हितं जनं स्फुटा व्यक्ता मणीनां कान्तिश्शोभा यस्य तं तथोक्तं शेषाद्विभाषा' इति कप् । राष्ट्रं प्राग्र्यया परार्थ्यया भया प्रभया आश्रितं विदधानं सर्वराष्ट्रसमृद्धिदायिनमिति यावत् । कुलस्य अन्वयस्य अलंकृत्याः अलंकारस्य योग्यं तनोषि । अहितमप्येवमेव तनोषीत्याश्चर्यम् । वस्तुतस्तु- अहितं जनमपि स्फुटाः मणिका मृद्विकाराः अन्तिके यस्य तं तथोक्तं 'अलञ्जरस्स्यामणिकः' इत्यमरः । राष्ट्रं प्राग्र्येण अग्रिमेण भा भ् इति वर्णेन भा इत्येतत्तृतीयैकवचनम् । श्रितं विदधानं भ्राष्ट्रं विनिर्मिमाणमित्यर्थः । राष्ट्रशब्दस्यादौ व्यञ्जनमात्रभकार-