पृष्ठम्:अलङ्कारमणिहारः.pdf/३३

पुटमेतत् सुपुष्टितम्
27
उपमालंकारसरः (१)

स्थानं ब्रह्माण्डे नास्ति किञ्चन’ इति वचनं स्मर्तव्यम् । न चात्रोपमानाभावेन साद्दश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवितत्वादलङ्कारान्तरमेव नोपमानलुप्तेति वाच्यम् । वेङ्कटाद्रिणा सदृशं स्थानं जातो वा जायमानो वा नोपलभेतेत्युक्त्या जनिष्यमाणेन येन केनचित् किमपि स्थानमेतत्तुल्यमुपलप्स्येतेति सादृश्यपर्यवसानमस्तीत्युपमानलुप्तैवेयमुपमा, नालङ्कारान्तरमिति वक्तुं युक्तत्वात् ॥

 उपमानलुप्ता समासगा यथा--

 नास्तीह वस्तु धन्यं कस्तूरीसदृशमिति वयं विद्मः । भुजगगिरीशस्य मुखं त्रिजगत्तिलकस्य तिलकितं ह्यनया ॥ ४३ ॥

 अत्र सदृशनिषेधादुपमानलुप्ता समासे ॥

वादिलुप्ता समासे स्यात्कर्माधारक्यचोः क्यङि ।
कर्मकर्त्रोर्णमुलि च णिनौ क्विपि च तद्धिते ॥
एवं नवप्रकारैषा ज्ञेया वाचकलोपिनी ॥ १७ ॥

 वाचकलुप्तां विभजते–-वादिलुप्ता उपमानवाचकवायथेवादिलुप्ता समासे 'उपमानादाचारे’ इति विहितकर्मक्यचि, 'अधिकरणाच्च' इति विहिते अधिकरणक्यचि, ‘कर्तुः क्यङ्सलोपश्च' इति कर्तृक्यङि, 'उपमाने कर्मणि च' इति कर्मणमुलि, चात्कर्तृणमुलि, ‘कर्तर्युपमाने' इति विहिते णिनौ, ‘सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' इत्याचारार्थविहिते क्विपि च तद्धिते च भवन्ती नवविधा भवति ॥