पृष्ठम्:अलङ्कारमणिहारः.pdf/३३५

पुटमेतत् सुपुष्टितम्
329
दीपकसरः (१७)

 अत्र केवलकर्तुः ॥

 सत्यविहीनं वचनं वित्तविहीनं कुटुम्बिनां भवनम् । वृत्तविहीनं जननं चित्तं हरिभक्तिहीनमपिशोच्यम् ॥ ५६३ ॥

 अत्र कर्मणः ॥

 इन्दिरया तव वक्षश्चन्दिरकलयाऽन्तरिक्षमब्जाक्ष । सुन्दरतामनवरतं विन्दत्यरविन्दरेखया च सरः ॥ ५६४ ॥

 अत्र कर्तृकरणयोः ॥

 कविना वचसा सहृदयहृदयं सुदृशा दशा मनो यूनाम् । भवता सौशील्येन क्रीतं भुवनं समग्रमपि भूमन् ॥ ५६५ ॥

 अत्र कर्तृकरणकर्मणामिति विशेषः । सौशील्यं महतो मन्दैस्सह नीरन्ध्रेण संश्लेषस्वभावः ॥

 जलदस्स चातकेभ्यस्सुधामयूखश्चकोरनिकरेभ्यः। अहिगिरिपतिर्नतेभ्योऽप्यमृतं निरपेक्षमेव संदत्ते ॥ ५६६ ॥

 अत्र कर्तृसम्प्रदानयोः । अमृतं सलिलं पीयूषं निश्श्रेयसं च यथाक्रममर्थः । अमृतशब्दस्यावृत्त्या कर्मणोऽपीति बोध्यम् ।

निरपेक्षमेव प्रत्युपकाराभिसन्धिविधुरमेवेत्यर्थः ॥

 ALANKARA
42