पृष्ठम्:अलङ्कारमणिहारः.pdf/३३७

पुटमेतत् सुपुष्टितम्
331
दीपकसरः (१७)

वलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः, श्लेषेऽप्येवं दैविध्यापत्तेः, सर्वेषामप्यलंकाराणां प्रभेदवैलक्षण्याद्वैलक्षण्यापत्तेश्च । तस्मात्प्रकृतानामेव अप्रकृतानामेव प्रकृताप्रकृतानां चैकधर्मान्वय इति तुल्ययोगिताया एव त्रयः प्रभेदा वक्तुमुचिता इति दीपकस्य तुल्ययोगितातः पृथगलंकारतामाचक्षाणानां प्राचां दुराग्रह एवेति वदन्ति । अन्ये तु-

नानाधिकरणस्थानां शब्दानां संप्रदीपकः।
एकवाक्येन संयोगो यस्तद्दीपकमुच्यते ॥

यथा-

सरांसि हंसैः कुसुमैश्च वृक्षा मत्तद्विरेफैश्च सरोरुहाणि ।
गोष्ठीभिरुद्यानवनानि चैव यस्मिन्नशून्यानि सदा क्रियन्ते॥

इति भरतमुनिना दण्डिनाऽपि दीपकमात्रस्याभ्युपगमात्तत्रैव तुल्ययोगितान्तर्भावनस्य औचित्यात्तुल्ययोगितायां दीपकान्तर्भावनं मन्वतेऽनुचितम् । अमुमलंकारं धर्मस्य गुणक्रियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रिविधमामनन्ति रुद्रटादयः । तन्मते यथा-अत्रोदाहृतेष्वेव पद्येषु-‘अरुणात्त्रासस्तमसाम्' इत्यत्रादौ, रक्तिविहीना वनिता' इत्यत्र मध्ये 'लावण्यं ललनामणिं’ इत्यादाववसाने च धर्मो निर्दिष्टः । वस्तुतस्तु -तत्र धर्मस्यादिमध्यावसानगतत्वेऽपि विच्छित्तिविशेषविरहात् त्रैविध्योक्तिरापातमात्रात् । अन्यथा धर्मस्योपाद्युपमध्योपान्तगतत्वं ततोपि किंचिन्न्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसङ्गात् । अनुपदप्रदर्शितेषूदाहरणेषु केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम् । ‘रक्तिविहीना वनिता’ इत्यादौ बिम्बप्रतिबिम्बभावेनाप्येतददर्शि ॥