पृष्ठम्:अलङ्कारमणिहारः.pdf/३४९

पुटमेतत् सुपुष्टितम्
343
प्रतिवस्तूपमासरः (१९)

वाक्यार्थो हि निर्भरतरव्युत्पत्तिनिशातितान्तःकरणैः विविधपदार्थसंदर्भपरिवर्तननिपुणैरेव महाकविभिर्विरचितः किमपि पुष्णाति कामनीयकं, नेतरः। तस्मादेवंजातीयकेष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैः तद्घटकविभक्त्यनुरूपाभिर्विभक्तिभिः तदन्वयानुरूपेण चान्वयेनोत्तरवाक्यार्थे भाव्यमिति सहृदयहृदयमेव प्रष्टव्यमिति वदन्ति॥

 अलंकारकौस्तुभकारो विश्वेश्वरस्तु इयमलंकारान्तरविषयेऽपि दृश्यत इत्याह । तत्राप्रस्तुतप्रशंसाविषये यथा-

 नीरसमिव सारसमपि सान्द्रतमा इव स चन्द्रमा जननि । सलयमिव किसलयं ननु विद्रुत इव विद्रुमस्तव पुरस्तात् ॥ ५९२ ॥

 तव अतिमात्ररमणीयनयनवदनकराधराया इति भावः । अत्र सारसादीनामपकर्षरूप एको धर्मः प्रतिवाक्यं भिन्नेन नीरसत्वादिना प्रतिपादितः। उत्प्रेक्षया चेयं संकीर्णेत्यवधेयम् ॥

 मालारूपेणापीयं दृश्यते । यथा--

 सहकारः फलमतुलं वहते स हरः कलानिधिं धत्ते । सम्राण्बिभर्ति मकुटं सरीसृपगिरिर्दरीधरीति हरिम् ॥ ५९३ ॥

 यथावा--

 इन्धे कविः प्रतिभया भाति प्रभया सरोजीनीबन्धुः । राज्यश्रियाऽवनीन्द्रो राजति नित्यश्रिया हरिर्लसति ॥५९४ ॥