पृष्ठम्:अलङ्कारमणिहारः.pdf/३५१

पुटमेतत् सुपुष्टितम्
345
दृष्टान्तसरः (२०)

 यथावा--

 श्रेयस्विनी त्रिलोकी भूयः कृपयैव भुजगशिखरीन्दोः । ओजस्विनी दिनश्रीस्तेजस्फूर्त्यैव तामरसबन्धोः ॥ ५९६ ॥

 यथावा--

 शुद्धिमतीयं जगती श्रीशैलेशाङ्घ्रिजन्मना सरिता । ऋद्धिमती त्रिदिवश्रीर्मन्दारभुवा महावदान्यतया ॥ ५९७ ॥

 यथावा--

 गिरेिशादिस्त्वदपाङ्गात्त्वं तु स्वत एव हीशिता भगवन् । काचमणिराचकास्ति द्युमणिकरादेष तु स्वभासैव ॥ ५९८ ॥

 यथावा--

 निस्स्वोपि त्वयि भक्तः पूज्यो नान्यो महासमृद्धिरपि । अभिरूपोऽनङ्गोपि श्लाघ्यो नानीदृशो महाङ्गोऽपि ॥ ५९९ ॥

 अनङ्गः अल्पाङ्गः नञोऽत्रानुदरा कन्येत्यादाविवाल्पत्वमर्थः।

कृशतनुरपीत्यभिप्रायः । काम इत्यप्युपस्कार्यम् । महाङ्गः पीवरावयवोपि । पक्षे उष्ट्र इत्यर्थः । 'उष्ट्रे क्रमेळकमयमहाङ्गाः' इत्यमरः ॥

 ALANKARA
44