पृष्ठम्:अलङ्कारमणिहारः.pdf/३५५

पुटमेतत् सुपुष्टितम्
349
निदर्शनसरः (२१)

वम् । स शिरोमणिं विधून्वन्पिशुनशिरसा बिभर्त्ययःपिण्डम् ॥ ६०५ ॥

 यथावा--

 निरवधिदिव्यविभूतेर्भवतो विभवं समर्पयेद्योऽन्यम् । कनकाचलस्य सीसाकलिताभरणं रमेश स हि दत्ते ॥ ६०६ ॥

 यथावा--

 अपलिलपिषति मुरारे भूमानं यस्तवातिसीमानम् । चिच्छादयिषति कामं पाणितलेनाखिलं स गगनतलम् ॥ ६०७ ॥

 यथावा--

 अन्यां विवक्षति कथां मान्यां यस्तावकीं कथां हित्वा । शेषगिरीश जिघत्सत्यूषररेणुं सितां विहायैषः ॥ ६०८ ॥

 यथावा--

 फणिगिरिपतिसममन्यं भणति सुरं यस्तु पण्डितंमन्यः । मणिसदृशं लोष्टं खरघृणिसदृशं तिमिरमपि भणति सोयम् ॥ ६०९ ॥

 अत्र सप्तमुदाहरणेषु आद्ययोरभेद एकवाक्यगतः। अन्तिमेषु तु भिन्नवाक्यगतः । तत्रापि ‘त्वामविगणय्य’ इत्यादिषु