पृष्ठम्:अलङ्कारमणिहारः.pdf/३५९

पुटमेतत् सुपुष्टितम्
353
निदर्शनासरः (२१)

चेन्न । वाक्यार्थनिदर्शनायां रूपकस्य गुणीभूतत्वेन तद्ध्वनित्वायोगात् । अन्यथा गुणीभूतोपमया रूपकस्यापि चारितार्थ्यापत्तेः । किंच, अस्याश्शरीरं तादृशपदार्थयोः परस्पराभेदमात्रमुभयत्र विश्रान्तम् । रूपकस्य तूपमेयगत उपमानाभेदः, आतिशयोक्तेश्च निगरणानिगरणाभ्यां तयोर्विशेष इत्यन्यदेतत् । एवंच स्फुटमेवास्या रूपकातिशयोक्तिभ्यां वैलक्षण्यम् । अत एव ‘कलशेन जलधिसलिलं सकलं, वृषगिरिमलंकरिष्णोः’ इति प्रागुदाहृतपद्ययोरर्थयोः पौर्वापर्येऽपि न चारुताहानिः । एवं ‘तव महिमानमनन्तं' इत्यादिपद्येष्वपि कांक्षतीत्यादौ कांक्षन्नित्याद्यनूद्य इच्छन्नित्यादौ इच्छेदित्यादिविधानेऽपीति बोध्यम् । अत्र व्यङ्ग्यरूपकादौ तूच्यमाने व्यङ्ग्यकक्ष्योद्देश्यविधेयभावस्यापि वाच्यकक्ष्योद्देश्यविधेयभावानुरोधितया 'कलशेन जलधिसलिलं सकलं शक्नोति यो हि परिमातुम्’ इत्यादौ कलशकरणकसकलजलधिसलिलकर्मकपरिमाणशक्तिमदादिरूपे उपमाने मनःकरणकाखिलभगवद्विभवकर्मकपरिच्छेदक्षमरूपोपमेयाभेदस्यैव प्रत्येतव्यतया रूपकासामञ्जस्यापत्तेरित्यालंकारिकसार्वभौमैराकलनीयम् ॥

 एवं पदार्थनिदर्शनायां लक्षणवैलक्षण्येऽप्युदाहरणानि प्राक्प्रदर्शितान्येव समन्वयप्रकारभेदेन योजनीयानि । सोपि वक्ष्यमाणरीत्या बुद्धिमद्भिरूहनीयः ॥

 यथावा—

 त्वामस्तुत्वा भगवन्यो भवति स्तवनकारकोऽन्येषाम् । सद्भिः कृतो निरस्तस्सत्यं वनकाकतां वहत्येषः ॥ ६१७ ॥

 सद्भिः ब्रह्मविद्भिः । निरस्तः प्रत्यादिष्टः कुतस्सन् वनका-

 ALANKARA
45