पृष्ठम्:अलङ्कारमणिहारः.pdf/३६

पुटमेतत् सुपुष्टितम्
30
अलंकारमणिहारे

 मनोज्ञे इत्येतज्जलधावित्यत्राप्यनुषञ्जनीयम् । अत्र जलधौ जननगृहीयतीत्याद्यधिकरणक्यचि जलधिजननगृहयोः जलजकेळीगृहयोश्च मनोज्ञे इति, भगवद्वक्षस्थलसौधयोः अमले इति च साधारणधर्मः। मनोज्ञे इत्यस्य जलधावित्यत्रानन्वये धर्मवाचकलुप्तायास्तदुदाहरणं भविष्यति इतरद्वाचकलुप्तायाः । एवं चात्रापि धर्मोपादानानुपादाने वैवक्षिके एवेति ध्येयम् ॥

 कर्तृक्यङि वाचकलुप्ता यथा--

भगवन्भवच्चरित्रं भवतप्तानां विधूयते नॄणाम् ।
अदसीयरसज्ञानां तदसीम मधूयते रसज्ञानाम् ॥

 अदसीयरसज्ञानां एतद्भगवच्चरित्रसम्बन्धिरसविदां जनानां सम्बन्धसामान्ये षष्ठी रसज्ञानां रसनानां असीम अनवधिकं तच्चरित्रं मधूयते इत्यन्वयः । अत्र विधुरिवाचरति मध्विवाचरतीत्यर्थे विधूयते मधूयत इति क्यङि भगवच्चरित्रस्य विधुमधुनोश्च आचारस्साधारणो धर्मः, स चोपात्तः । आचारमात्रार्थकतया क्यच्क्यङोः प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्रतिपत्तिरितिनये सादृश्यवाचकाभावाद्वाचकलुप्ता । पर्यङ्कीयतीत्यादिसमुदायस्यैव पर्यङ्कादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमितिनयेऽपि सादृश्यसादृश्यविशिष्टान्यतरमात्रवाचकाभावाद्वाचकलुप्ता ॥

 यथावा--

राधायन्ते भामाः कामाधिकरूप तव विलोकनतः ।
वेधायन्ते पुरुषाः पुरुषोत्तम वृषगिरीश तत एव ॥

 तत एव विलोकनत एवेत्यर्थः । आदौ कर्मणि षष्ठी । ततः