पृष्ठम्:अलङ्कारमणिहारः.pdf/३६०

पुटमेतत् सुपुष्टितम्
354
अलंकारमणिहारे

कतां अरण्यवायसतां, अतिनिकर्षद्योतनाय वनेतिविशेषणम् । वहति । पक्षे - स्तवनकारकशब्दः निरस्तः निर्गतौ रेफस्तकारौ यस्य स तथोक्तस्सन् वनकाक इति निष्पद्यत इत्यर्थः । अन्यत्सुगमम् । अत्र वनकाकत्वस्योपमानधर्मस्य उपमेये स्तवनकारके आरोपः। स चौपम्ये पर्यवस्यति । वनकाकवाशितवद्भगवदन्यस्तवनमनर्थकममनोज्ञमश्रव्यं चेति भावः । अत्र शब्दपरार्थान्तरवर्णनं चमत्कारातिशयाय ॥

 यथावा-

 सत्यपि तवाभिधाने मुदां निधाने मुधैव यो मुखरः । सत्यं स हि मुन्न्यूनस्संप्रथयति सारसाक्ष खरभावम् ॥ ६१८ ॥

 हे सारसाक्ष मुदां आनन्दानां निधाने निधिभूते मुक्त्यैश्वर्यपर्यन्तसर्वविधानन्दप्रदानधुरंधरे इति भावः । तव अभिधाने नामनि सत्यपि त्वदभिधानमनादृत्येत्यर्थः । यः मुधैव निरर्थकमेव मुखरः वाचाटः भवति सः पुमान् मुदा न्यूनस्सन् आनन्दनिधानभूतनामाभिलापवैधुर्यादिति भावः । पक्षे मुवर्णेन न्यूनः विश्लिष्टस्सन् । अस्मिन्पक्षे न्यू इत्यत्र नकारस्य 'अनचि च' इति वैकल्पिकं द्वित्वं पक्षान्तरार्थानुरूप्यायेति बोध्यम् । खरस्य रासभस्य भावं स्वभावं चेष्टां वा ‘भावस्सत्त्वास्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः । संप्रथयति । उक्तप्रकारभगवन्नामाभिलापविधुरतयाऽतिमात्रपरुषाश्राव्यव्यर्थालापैस्समयं , क्षिपन्रासभतुल्य एवेति भावः । पक्षे - मुखरशब्दो मुवर्णच्यावने खरत्वं प्रकाशयतीत्यर्थः । अत्रापि भगवन्नामाभिला-